________________
३६२
दशवैकालिकं-टीकात्रिकयुतम् इत्यर्थः, श्लोक इति य जातिपरो निर्देशः, ततश्च श्लोकजातिः अनेकभेदा भवतिइति प्रभूतश्लोकोपन्यासेऽपि न विरोधः 'जया' इति-यदा चैवमष्टादशसु स्थानेषु व्यावर्तनकारणेषु सत्स्वपि, यो बालोऽज्ञो धर्मं चारित्रलक्षणं जहाति त्यजति, स आयतिमागामिकालं नावबुध्यते सम्यग् नावगच्छति, किम्भूतो बालः ? अनार्य इव अनार्यो म्लेच्छचेष्टितः, किमर्थं धर्मं त्यजति ?-इत्याह-भोगकारणाय शब्दादिभोगनिमित्तं, किम्भूतो बालः ? तत्र मूर्छितः, तेषु भोगेषु मूर्छितो गृद्धः. ।।चू.१.१.।।
(सु.) भवति चात्र श्लोकः, अत्रेति अष्टादशस्थानार्थव्यतिकरे, उक्तानुक्तार्थसंग्रहपर इत्यर्थः, श्लोक इति च जातिपरो निर्देशः, ततश्च श्लोकजातिरनेकभेदा भवतीति प्रभूतश्लोकोपन्यासेऽपि न विरोधः- जया य' इति-यदा चैवमष्टादशसु व्यावर्तनकारणेषु सत्स्वपि जहाति-त्यजति धर्म-चारित्रलक्षणं, अनार्य इत्यनार्य इव, अनार्यो-म्लेच्छचेष्टितः, किमर्थम् ?-इत्याह-भोगकारणात्-शब्दादिभोगनिमित्तं स धर्मत्यागी, तत्र-तेषु भोगेषु मूर्छितो गृद्धो बालोऽज्ञः, आयतिं-आगामिकालं नावबुध्यते-न सम्यगवगच्छतीति ||चू.१.१।।
जया ओहाईओ होइ इंदो वा पडिओ छमं । सव्वधम्मपरिभट्ठो, स पच्छा परितप्पइ ।।चू.१.१.२।। (ति.) यदा अवधावितो भवति-संयमसुखविभूतेः उत्प्रव्रजित इत्यर्थः । इन्द्र इव पतितः क्षमाम् । सर्वधर्मेभ्यः-पूर्वासेवितेभ्यः, लौकिकेभ्यो गौरवादिभ्यः परिभ्रष्टः । स पश्चाद्-ईषन्मोहापगमे । परितप्यते-'आः किमिदमकार्यं मयानुष्ठितम् ?-इत्यनुतापं करोति।।१.१.२।। __ (स.) एतदेव दर्शयति-जया' इति-यदा चावधावितोऽपसृतो भवति यः, कोऽर्थः संयमसुखविभूतेः सकाशादुत्प्रव्रजित इत्यर्थः, तदा इन्द्रो वा देवराज इव, क्षमां पतितः, स्वविमान-विभवभ्रंशेन भूमौ पतित इति भावः. किम्भूतो य? सर्वधर्मपरिभ्रष्टा, सर्वधर्मेभ्यः क्षान्त्यादिभ्यः आसेवितेभ्योऽपि यावत्प्रतिज्ञमननुपालनात्, लौकिकेभ्यो वा गौरवादिभ्यः परिभ्रष्टः सर्वतश्च्युतः, पतितो भूत्वा पश्चान्मनाग् मोहस्यान्ते स परितप्यते, किमिदं मया कार्यं कृतमित्यनुतापं करोति. ||चू.१.२ ।।
(सु.) जया उ इति, यदाऽवधावितोऽपसृतो भवति संयमसुखविभूतेः, उत्प्रव्रजित इत्यर्थः, इन्द्रो व' इति-देवराज इव पतितः क्ष्मां-क्ष्मां गतः, स्वविभवभ्रंशेन भूमौ १. ओहाविओ' इत्यन्यत्र मुद्रितम्, टीकास्वत्र तिसृषु अपि 'अवधावितः' इति विवृतम् ।