SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३७२ दशवैकालिकं-टीकात्रिकयुतम् भविष्यति, किमित्याह-अशाश्वती-प्रायो यौवनकालावस्थायिनी भोगपिपासा-विषयतृष्णा, जन्तोः-प्राणिनः, अशाश्वतीत्व एव कारणान्तरमाह-न चेच्छरीरेणानेनापयास्यति-न यदि शरीरेणानेन करणभूतेन वृद्धस्यापि सतोऽपयास्यति, तथापि किमाकुलत्वं ?, यतोऽपयास्यति जीवितपर्ययेण-जीवितस्य व्यपगमेन-मरणेनैवं निश्चितः स्यादिति ||चू.१.१६ ।। जस्सेव अप्पा, ओ हविज्ज निच्छिओ, चइज्ज देहं न हु धम्मसासणं । तं तारिसं नो पयलंति इंदिया, उप्पायवाया व सुदंसणं गिरिं ||चू.१.१७।। (ति.) अस्यैव फलमाह-यस्य-साधोः । एवम्-उक्तप्रकारेण । आत्मा तुरेवार्थे, आत्मैव । निश्चितः-दृढः, क्वचिद् विघ्ने परकृते इन्द्रियकृते वा उपस्थिते । त्यजेद् देहं, न तु धर्मशासनम्-धर्माज्ञाम् । तं तादृशम्-निश्चितम् । न प्रचलयन्ति । संयमाद् इन्द्रियाणि । उत्पातवाता इव सुदर्शनं गिरिम्-मेरुपर्वतं स्थानात् ।।चू.१.१७ ।। (स.) अथास्यैव साधोः फलमाह-जस्स...इति-इन्द्रियाणि चक्षुरादीनि, तं पूर्वोक्तं तादृशं, धर्मे निश्चितं साधु, संयमस्थानान्न प्रचालयन्ति न प्रकम्पयन्ति, दृष्टान्तमाहके कमिव ? यथोत्पातवाताः सुदर्शनं गिरि मेरुपर्वतं न कम्पयन्ति, तं साधुं कं ? यस्य साधोरेवमुक्तप्रकारेणात्मैव निश्चितो दृढः स क्वचिद् विघ्न उत्पन्ने देहं त्यजेत्, परं न तु शासनं न पुनर्धर्माज्ञाम्. ||चू.१.१७ ।। (सु.) अस्यैव फलमाह-जस्सेव...इति, यस्येति-साधोरेवमुक्तेन प्रकारेणात्मा, तुतुशब्दस्यैवकारार्थत्वादात्मैव भवेनिश्चितो दृढः यः, स त्यजेद् देहं क्वचिद् विघ्न उपस्थिते, न तु धर्मशासनं-न पुनर्धर्माज्ञामिति, तं च तादृशं धर्मे निश्चितं न प्रचालयन्ति-संयमस्थानान्न प्रकम्पयन्ति इन्द्रियाणि-चक्षुरादीनि । निदर्शनमाहउपपातवाता इव-संपतत्पवना इव सुदर्शनं गिरिं-मेरुं, एतदुक्तं भवति-यथा मेरुं वाता न चालयन्ति, तथा तमपीन्द्रियाणीति ।।चू.१.१७ ।। इच्चेव संपस्सिय बुद्धिमं नरो, आयं उवायं विविहं वियाणिया । काएण वाया अदु माणसेणं, तिगुत्तिगुत्तो जिणवयणमहिडिज्जासि ||चू.१.१८ ।। त्ति बेमि
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy