________________
१ चूलिका - रतिवाक्या
३७३ (ति.) उपसंहरन्नाह-इत्येवम-अध्ययनोक्तं दुःप्रजीवित्वादि सम्यग् दृष्ट्वा बुद्धिमान नरः । आयम्-उत्प्रव्रजननिषेधलाभम् । अस्यैव उपायम्-कारणभूतं श्रीस्थूलभद्रादिचरितचिन्तनं श्रुताभ्यासादिकं विविधं विज्ञाय | कायेन वाचा अथ मानसेन । अनेन त्रयेण त्रिगुप्तिगुप्तो जिनवचनमधितिष्ठेत् । इति ब्रवीमि इतिपूर्ववत् ।।चू.१.१८ ।।
श्रीतिलकाचार्यवृत्तौ प्रथमचूलिका समाप्ता ।। (स.) अथोपसंहारमाह-इच्चेव...इति-बुद्धिमान् नरः सम्यगबुद्ध्या सहितो मानवः कायेन वाचा वचनेनाथ मनसा त्रिभिरपि करणैर्यथाप्रवृत्तैस्त्रिगुप्तिभिर्गुप्तः सन् जिनवचनं तीर्थकरस्योपदेशमधितिष्ठेत्, यथाशक्ति तदुक्तैकक्रियापालने तत्परो भूयात्, भावायसिद्धौ तत्त्वतो मुक्तिसिद्धेः, किं कृत्वा ? इत्येवमध्ययने कथितं दुष्पजीवित्वादि सम्प्रेक्ष्यादित आरभ्य यथावद् दृष्ट्वा, पुनः किं कृत्वा ? आयं सम्यग्ज्ञानादेर्लाभमुपायं च ज्ञानादिसाधनप्रकारं विविधमनेकप्रकारं ज्ञात्वा, ब्रवीमीति पूर्ववत्. ||चू.१.१८ ।।
इति श्रीदशवैकालिकशब्दार्थवृत्तौ श्रीसमयसुन्दरोपाध्यायविरचितायां प्रथमचूलिका समाप्ता. १. श्रीरस्तु.
(सु.) उपसंहरन्नाह-इच्चेव...इति, इत्येवमध्ययनोक्तं दुष्प्रयोगजीवित्वादि संप्रेक्ष्याऽऽदित आरभ्य, यथा यदृष्ट्वा बुद्धिमान् नरः सम्यग् बुद्ध्युपेत आयमुपायं विविधं विज्ञाय, आय:-सम्यग्ज्ञानादेरुपायः तत्साधनप्रकारः कालविनयादिः, विधोऽनेकप्रकारः, तं ज्ञात्वा, किम् ?-इत्याह-कायेन वाचाऽथवा मनसा-त्रिभिरपि करणैर्यथाप्रवृत्तैः, त्रिगुप्तिगुप्तः सन् जिनवचनमर्हदुपदेशमधितिष्ठेत् यथाशक्त्या तदुक्तैकक्रियापालनपरो भूयाद् भावायसिद्धौ तत्त्वतो मुक्तिसिद्धेः ।।चू.१.१८ ।। ब्रबीमीति पूर्ववत् ।।
सुमति वृत्तौ समाप्तं रतिवाक्याध्ययनमिति चूला १ ।।