Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 380
________________ १ चूलिका - रतिवाक्या ३६५ (ति.) यदा च उत्प्रव्रजितस्य जातकुकुटुम्बस्य सम्बन्धिनीभिः कुतप्तिभिःआत्मपरसन्तापकारिणीभिः । विहन्यते-विषयभोगान् प्रति विघातं नीयते । कुटुम्बबन्धनेन बद्धः । उत्तरार्द्ध स्पष्टम् ।।चू.१.७।। (स.) एतदेव स्पष्टयति-जया' इति-यदा च कुकुटुम्बस्य कुत्सितकुटुम्बस्य, कुतप्तिभिः कुत्सितचिन्ताभिरात्मनः सन्तापकारिणीभिः, विहन्यते विषयभोगान् प्रति विघातं नीयते, तदा स मुक्तसंयमः सन् परितप्यते पश्चात्, क इव ? यथा हस्ती कुकुटुम्ब-बन्धनबद्धः परितप्यते.||चू.१.७।। ___ (सु.) एतदेव स्पष्टयति-जया य कुकुडुंबस्स' इत्यादि, कुकुटुम्बस्य-कुत्सितकुटुम्बस्य, कुतप्तिभिः-कुत्सितचिन्ताभिः, आत्मनः संतापकारिणीभिर्विहन्यते-विषयभोगान् प्रति विघातं नीयते तदा स मुक्तसंयमः सन् परितप्यते पश्चात्, क इव?-यथा हस्ती कुकुटुम्ब-बन्धनबद्धः परितप्यते ।।चू.१.७ ।। पुत्त दारंपरिक्किन्नो, मोहसंताणसंतओ | पंकोसन्नो जहा नागो, स पच्छा परितप्पई ।।चू.१.८।। (ति.) उत्प्रव्रजितो विषयासक्तः कलत्रपुत्रादिभिः, परि-समन्तात्, कीर्णो-विक्षिप्तः। मोहसन्तानसन्ततः-दर्शनमोहनीयकर्मप्रवाहेण व्याप्तः । पङ्कावसन्नो यथा नागः कर्दमावमग्नो वनगज इव । स पश्चात् परितप्यते 'हा हा किं मयेदमसमञ्जसं चेष्टितम्' इति ।।चू.१.८।। (स.) पुनराह-पुत्त...इति-मुक्तसंयमः पश्चात् परितप्यते, हा हा किं मयेदमसमञ्जसमनुष्ठितं, किम्भूतः ? पुत्रदारपरिकीर्णः, विषयसेवनात् पुत्र-कलत्रादिभिः सर्वतो विक्षिप्तः पुनः किम्भूतः ? मोहसन्तानसन्ततो दर्शनमोहनीयादि-कर्मप्रवाहेण सन्तप्तः, क इव परितप्यते ? यथा नागो हस्ती पङ्कावसन्नः कर्दममग्नः सन् परितप्यते. ||चू.१.८।। (सु.) एतदेव स्पष्टयति पुत्रदार...इति, पुत्र दारपरिकीर्णो-विषयसेक्नात् पुत्रकलत्रादिभिः सर्वतो विक्षिप्तो मोहसन्तानसन्ततो-दर्शनादिमोहनीयकर्मप्रवाहेण १. अन्यत्र 'परीकिन्नो', मुद्रितम् चूर्णौ अपि 'परिक्किण्णो' इति तद् सुष्ठु प्रतिभाति, यतः (ति) टीकायां 'परि कीर्णो इति विवृतम्, अन्यत्रा विवृतं तथैव ।

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416