Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 382
________________ १ चूलिका - रतिवाक्या नाटकादिव्यापृताः सन्तोऽदीनमनसस्तिष्ठन्ति तथा सुसाधवोऽपि ततोऽधिकभावतः प्रत्युपेक्षणादि-क्रियाव्यापृता अदीनमनसस्तिष्ठन्ति कथम् ? उपादेयविशेषत्वात् प्रत्युपेक्षणादेः, तथा पर्यायेऽरतानाञ्च - भावतः सामाचार्यामसक्तानां चशब्दाद्विषयाभिलाषिणाञ्च, भगवल्लिङ्गविडम्बकानां क्षुद्रप्राणिनां पर्यायो महानरकसदृशो रौरवादितुल्यः, तत्कारणत्वान्मानस - दुःखातिरेकात्, तथा विडम्बनाच्चेति. ।। चू. १.१० ।। ३६७ (सु.) अवधानोत्प्रेक्षिणः स्थिरीकरणार्थमाह-देवलोकसमाणो... इति, देवलोकसमानस्तु-देवलोकसदृश एव पर्यायः - प्रव्रज्यारूपो महर्षीणां - सुसाधूनां रतानां - सक्तानां, पर्याय एवेति गम्यते, तदुक्तं भवति, यथा देवलोके देवाः प्रेक्षणकादिव्यापृता अदीनमनसः तिष्ठन्ति, एवं सुसाधवोऽपि ततोऽधिकं भावतः प्रत्युपेक्षणादिक्रियायां व्यापृताः, उपादेयविशेषतत्वात् प्रत्युपेक्षणादेरिति देवलोकसमान एव पर्यायो महर्षीणां रतानामिति । अरतानां च भावतः सामाचार्यसक्तानां च चशब्दात् विषयाभिलाषिणां च भगवल्लिङ्गविडम्बकानां क्षुद्रसत्त्वनां महानरकसदृशो - रौरवादितुल्यस्तत्कारणत्वान्मानस-दुःखातिरेकात् तथा विडम्बनाच्चेति । ।चू. १.१० ।। अमरोवमं जाणिय सुक्खमुत्तमं रयाणं परियाइ तहारयाणं । नरओवमं जाणिय दुक्खमुत्तमं तम्हा रमिज्जा परियाइ पंडिए ।।चू. १.११।। (ति.) एतदुपसंहारेणैव निगमयन्नाह - अमरोपमं ज्ञात्वा सौख्यमुत्तमं रतानां पर्यायेप्रव्रज्यारूपे । तथा अरतानां व्रतपर्याये नरकोपमं ज्ञात्वा दुःखमुत्तमम् । तस्मात् पण्डितः-सुख-दुःखज्ञः । प्रव्रज्यापर्याये रमेत । येन दिव्यसुखभागी भवति । ।चू. १.११ ।। (स.) एतच्चोपसंहारेणैव निगमयन्नाह - अमर... इति-पण्डितः शास्त्रज्ञः, पर्याय उक्तरूपे संयमे रमेत सक्तिं कुर्यात्, किं कृत्वा ? अमरोपमं देवसदृशं सौख्यं प्रशमसौख्यं प्रशस्तं ज्ञात्वा विज्ञाय, केषामित्याह-पर्याये रतानां दीक्षायां सक्तानां सम्यक्प्रत्युपेक्षणादिक्रियाद्यङ्गे, पुनः किं कृत्वा ? पर्याय एवा - ऽरतानां नरकोपमं नरकतुल्यमुत्तमं प्रधानं दुःखं च ज्ञात्वा. ।।चू.१.११ ।। (सु.) एतदुपसंहारेणैव निगमयन्नाह - अमर... इति, अमरोपमं उक्तन्यायाद् देवसदृशं ज्ञात्वा-विज्ञाय सौख्यमुत्तमं - प्रधानं प्रशमसौख्यं केषाम् ? - इत्याह-रतानां पर्यायेसक्तानां सम्यक्प्रत्युपेक्षणादिक्रियाव्यङ्ग्ये श्रामण्ये, तथा अरतानां पर्याय एव, किम् ? - I

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416