Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 363
________________ दशवैकालिकं- टीकात्रिकयुतम् (स.) न...इति-तथा यः परं स्वपक्षशिष्येभ्यो व्यतिरिक्तम् 'अयं कुशील इति न वदति, तद्वदने चाप्रीतिदोष उत्पद्यते. स्वपक्षशिष्यं तु शिक्षाग्रहणबुद्ध्या वदत्यपि, पुनर्येनान्यः कश्चित् कुप्यति, न तद् यो ब्रवीति दोषसद्भावेऽपि किमित्याह-ज्ञात्वा प्रत्येकं पुण्यपापं नान्यसम्बन्ध्यन्यस्य भवति, अग्निदाहवेदनावत्, एवं सत्स्वपि गुणेष्वात्मानं यो न समुत्कर्षति, न स्वगुणैर्गर्वमायाति स भिक्षुः । । १०.१८ । । ३४८ (सु.) तथा - न परं ....इति, न परं स्वपक्षविनेयव्यतिरिक्तं वदति - अयं कुशीलस्तदप्रीत्यादि-दोषप्रसङ्गात्, स्वपक्षविनेयं तु शिक्षाग्रहणबुद्ध्या वदत्यपि, सर्वथा येनान्यः कश्चित् कुप्यति न तद् ब्रवीति दोषसद्भावेऽपि किम् ?-इत्यत आह-ज्ञात्वा प्रत्येकं पुण्यपापं, नान्यसम्बन्धि अन्यस्य भवति अग्निदाहवेदनावत्, एवं सत्स्वपि गुणेषु नात्मानं समुत्कर्षति-न स्वगुणैर्गर्वमायाति यः स भिक्षुरिति ।।१०.१८।। न जाइमत्ते ने रूवमत्ते, न लाभमत्ते न सुएण मत्ते । मयाणि सव्वाणि विवज्जयंतो, धम्मज्झाणरए य जे, स भिक्खू ।।१०.१९ ।। (ति.) मदप्रतिषेधमाह - ( न जाइ... इति) स्पष्टम् ।।१०.१९ ।। (स.) अथ मदप्रतिषेधार्थमाह न जाइ... इति यः साधुर्जातिमत्तो न भवति, 'यथाहं ब्राह्मणः, पुनर्यो रूपमत्तो न भवति, 'यथाहं रूपवानादेयः, पुनर्यो लाभमत्तो न भवति, ‘यथाहं लाभवान्, पुनर्यो न श्रुतमत्तो भवति 'यथाहं पण्डितः, अनेन कुलमदादिपरिग्रहः, तदेवाह-मदान् सर्वान् कुलादिविषयान् विवर्ज्य परित्यज्य धर्मध्यानरतो भवेत् स भिक्षुः. ।।१०.१९।। (सु.) मदप्रतिषेधार्थमाह-न जाइमत्ते... 'इति, न जातिमत्तो यथाऽहं ब्राह्मणः क्षत्रियो वा, न चापि रूपमत्तो 'यथाऽहं रूपवान्, आदेयः, न लाभमत्तो 'यथाऽहं लाभवान्, न श्रुतमत्तो 'यथाऽहं पण्डितः, अनेन कुलमदादिपरिग्रहः, अत एवाहमदान् सर्वानपि कुलादिविषयान् विवर्ज्य-परित्यज्य धर्म्मध्यानरतो - यो यथागमं तत्र सक्तः स भिक्षुरिति ।।१०.१९ । । पवेयए अज्जवयं महामुणी, धम्मे ठिओ ठावई परं पि । निक्खम्म वज्जिज्ज कुसीललिंगं, न यावि हासकुहएँ य जे, स भिक्खू ।।१०.२०।। १ न च रूव...इति मुद्रितमन्यत्र, 'विवज्जइत्ता' च, न विवृत्तं च (ति) टीकायां, किन्तु अन्यत्र तु विवर्ण्य' इति विवृतम्, अतः मूले 'विवज्जइत्ता' पाठः शुद्धः प्रतिभाति २. सर्वानपीति पाठान्तरम् । ३. 'ठावयई' इति मुद्रितमन्यत्र । ४. 'कुहए जे, स - इति मुद्रितमन्यत्र ।

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416