Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 367
________________ ३५२ दशवैकालिकं-टीकात्रिकयुतम् यतश्चैवम् ?-अतः सम्यक् प्रत्युपेक्षितव्यानि भवन्ति, किम्भूतेन साधुना ? उत्पन्नदुःखेन, सञ्जात-शीतादिशारीर-स्त्रीनिषद्यादिमानसदुःखेन, पुनः किम्भूतेन ? संयमे पूर्ववर्णितस्वरूपे-ऽरतिसमापन्नचित्तेनो-द्वेगगताभिप्रायेण संयमानिर्विण्णभावेनेत्यर्थः, पुनः किम्भूतेन? अवधानोत्प्रेक्षिणा, अवधानमपसरणं संयमात, उतप्राबल्येन, प्रेक्षितुं शीलं यस्य स तेनावधानोत्प्रेक्षिणोत्प्रव्रजितुकामेनेत्यर्थः, पुनः किम्भूतेन ? अनवधावितेनैव, अनुत्प्रव्रजितेनैव । (सु.) अधुनौघतश्चूडे आरभ्येते, अनयोश्चायमभिसम्बन्ध इहानन्तराध्ययने भिक्षुगुणयुक्त एव भिक्षुरुक्तः, स चैवंभूतोऽपि कदाचित्कर्मपरतन्त्रत्वात् कर्मणश्च बलवत्त्वात् सीदेत्, अतस्तत्स्थिरीकरणं कर्तव्यमिति, तदर्थाधिकार एव चूडाद्वयमभिधीयते, तच्चेदंइह खलु भो पव्व...इति, इह खलु भो प्रव्रजितेन इहेति जिनप्रवचने, खलुशब्दोऽवधारणे, स च भिन्नक्रम इति दर्शयिष्यामः, भो इत्यामन्त्रणे, प्रव्रजितेन-साधुना, किंविशिष्टेनेत्याहउत्पन्नदुःखेन-सञ्जातशीतादिशारीर-स्त्रीनिषद्यादि-मानसदुःखेन, संयमे-व्यावर्णितस्वरूपे अरतिसमापन्नचित्तेनोद्वेगगताभिप्रायेण संयमनिर्विण्णभावेनेत्यर्थः, स एव विशेष्यतेअवधावनोत्प्रेक्षिणा-अवधावनं-अपसरणं संयमात्, उप्राबल्येन प्रेक्षितुं शीलं यस्य स तथाविधस्तेन, उत्प्रव्रजितुकामेनेति भावः, अनवधावितेनैव-अनुत्प्रव्रजितेनैव, अमूनि वक्ष्यमाणलक्षणान्यष्टादश स्थानानि सम्यग्-भावसारं सुप्रत्युपेक्षितव्यानिसुष्ठ्वालोचनीयानि भवन्तीति योगः; अवधावितस्य तु प्रत्युपेक्षणं प्रायोऽनर्थकमिति, तान्येव विशेष्यन्ते-हयरश्मि-गजाकुश-पोतपताकाभूतानि-अश्वखलिन-गजाकुशबोहित्थसितपटतुल्यानि, एतदुक्तं भवति-यथा हयादीनामुन्मार्ग-प्रवृत्तिकामानां रश्म्यादयो नियमनहेतवः, तथा एतान्यपि संयमादुन्मार्गप्रवृत्तिकामानां भव्यसत्त्वानामिति, यतश्चैवम ? अतः सम्यक् प्रत्युपेक्षितव्यानि भवन्ति, खलुशब्दोऽवधारणे, योगात् सम्यगेव संप्रत्युपेक्षितव्यानि एवेत्यर्थः । तं जहा-हंहो (१) दुस्समाए दुप्पजीवी । (२) लहुसगा इत्तरिया गिहीणं कामभोगा। (३) भुज्जो य सायबहुला मणुस्सा । (४) इमे य मे दुक्खे न चिरकालोवट्ठाइ भविस्सइ । (५) ओमजणपुरक्कारे । (६) वंतस्स पडियाइयणं। (७) अहरगइवासोवसंपया । (८) दुल्लभे य खलु भो गिहीणं धम्मे गिहवासमज्झे वसंताणं । (९)

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416