Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
३५६
दशवैकालिकं-टीकात्रिकयुतम्
(६) वंतस्स पडियाइयणं ।
(ति.) तथा वान्तस्य प्रत्यापानम् - भुक्तोज्झितपरिभोग इत्यर्थः । वान्ताश्च भोगाः प्रव्रज्याङ्गीकरणेन । तेषां पुनरादानं वान्ताहारभोजनकल्पम्, अधमजनस्यापि निन्दनीयं, दुर्गतिव्याधिजनकं च । ततः किमेतेनेति षष्ठम् ||६||
(स.) अथ षष्ठं स्थानमाह - वान्तस्य प्रत्यापानं भुक्तोज्झितपरिभोग इत्यर्थः, अयं च श्व-शृगालादिक्षुद्रप्राणिभिराचरितः सतां निन्द्यः, पुनर्व्याधिदुःखजनकः, वान्ताश्च भोगाः प्रव्रज्याङ्गीकरणेन, एतत्प्रत्यापानमेवं भूतमेवं चिन्तनीयमिति षष्ठं स्थानम् ।।६।।
(सु.) तथा वान्तस्य प्रत्यापानं भुक्तोज्झितपरिभोग इत्यर्थः, अयं च श्व-शृगालादिक्षुद्रसत्त्वाचरितः सतां निन्द्यो व्याधिदुःखजनकः, वान्ताश्च भोगाः प्रव्रज्याङ्गीकरणेन, एतत्प्रत्यापानमप्येवंभूतमेव चिन्तनीयमिति षष्ठं स्थानम् ।।६।।
(७) अहरगइ-वासोवसंपया ।
(ति.) अधरगतिवासोपसम्पत्-अधरगतिर्नरकगतिस्तिर्यग्गतिश्च । तत्र वासाय उपसम्पत्-अङ्गीकरणम् । तदेतदुत्प्रव्रजनं तदधोगतिगतौ सत्यङ्कारकल्पम् । ततः किमेतेन ? इति सप्तमम् ||७||
(स.) अथ सप्तमस्थानमाह - तथाधोगतिवासोपसम्पत्, अधोगतिर्नरकगतिस्तिर्यग्गतिर्वा, तस्यां वसनमधोगतिवासः, एतन्निमित्तभूतं कर्म गृह्यते, तस्योपसम्पत्, सामीप्येनाङ्गीकरणं यदेतदुत्प्रव्रजनमेवं चिन्तनीयमिति सप्तमं स्थानम् ।।७।।
(सु.) तथा अधोगतिः-नरकतिर्यग्गतिः, तस्यां वसनं अधोगतिवासः, एतन्निमित्तभूतं कर्म गृह्यते, तस्योपसंपत् - सामीप्येनाङ्गीकरणं यदेतदुत्प्रव्रजनं, एवं चिन्तनीयमिति सप्तमं स्थानम् ।।७।।
(८) दुल्लभे य खलु भो गिहीणं धम्मे गिहवासमज्झे वसंताणं ।
(ति) दुर्लभः खलु गृहिणां धर्मः गृहपाशमध्ये वसताम् गृहे पाशकल्पाः - कलत्रपुत्रादयः, तन्मध्ये वसताम्, अनादिभवाभ्यासाददवरकं बन्धनम् । उक्तं च
-
अहह ! गृही किमु कुशली, वध्वा संसारसागरे क्षिप्तः ।
यदि बत लभते पोतं, तेनापि निमज्यते सुतराम् ।।१।। इत्यष्टमम् ।।८।
(स.) अथाष्टमं स्थानमाह - भो इत्यामन्त्रणे गृहिणां गृहस्थानां धर्मः परमनिर्वृतिजनको दुर्लभ एव, किं कुर्वतां गृहिणां ? गृहपाशमध्ये वसताम् अत्र गृहशब्देन

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416