Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 373
________________ ३५८ दशवैकालिकं-टीकात्रिकयुतम् क्रियानुगता-पण्डितजनगर्हिताः शीतोष्णश्रमादयः । घृत-लवण-तैल-तण्डुल-चिन्तादयश्च । निरूपक्लेशः पर्याय-प्रव्रज्यारूपः । अनारम्भी चिन्तापरिवर्जितः श्लाघ्यो विदुषामित्येवं चिन्तनीयम्-इत्येकादशम् ।।११।। __(स.) अथैकादशं स्थानमाह-गृहवासो गृहाश्रमः सोपक्लेशः, सह उपक्लेशेन वर्तते यः स सोपक्लेशः, उपक्लेशाः कृषि-पाशुपाल्य-वाणिज्याद्यनुष्ठानगताः पण्डितजनगर्हिताः शीतोष्णश्रमादयो घृत-लवणचिन्तादयश्चेत्येवं चिन्तनीयमित्येकादशं स्थानम्. ।।११।। (सु.) तथा सोपक्लेशो गृहवास इति सहोपक्लेशैः सोपक्लेशो गृहिवासो-गृहाश्रमः, उपक्लेशा:-कृषि-पाशुपाल्य-वाणिज्याद्यनुष्ठानानुगताः पण्डितजनगर्हिताः शीतोष्णश्रमादयः, घृत-लवणचिन्तादयश्चेत्येवं चिन्तनीयमित्येकादशं स्थानम् ।।११।। (१२) बंधे गिहिवासे, मुक्खे परियाए । (ति.) तथा, बन्धो गृहवासः-सदा बन्धहेत्वनुष्ठानादूर्णनाभकीटवत् । मोक्षः पर्यायः प्रव्रज्यारूपः । अनवरतं कर्मनिगडविगमात् मुक्तवदित्येवं चिन्तनीयं द्वादशम् ।।१२।। (स.) अथ द्वादशं स्थानमाह-पर्याय एभिरेवोपक्लेशै रहितः, दीक्षापर्यायोऽनारंभी चिन्तापरिवर्जितः श्लाघनीयो विदुषामिति चिन्तनीयमिति द्वादशं स्थानम्. ।।१२।। (सु.) तथा निरुपक्लेशः पर्याय इति, एभिरेवोपक्लेशै रहितः प्रव्रज्यापर्यायः, अनारम्भी कुचिन्तापरिवर्जितः श्लाघनीयो विदुषामित्येवं चिन्तनीयमिति द्वादशं स्थानम् ।।१२।। (१३) सावज्जे गिहिवासे निरवज्जे परियाए | (ति.) तथा, सावद्यो गृहवास-सपापः प्राणातिपात-मृषावादादिप्रवृत्तेः । निरवद्यः पर्यायः-अपापः-अहिंसादिपालनात्मकत्वात्-इति त्रयोदशम् ।।१३।। (स.) अथ त्रयोदशं स्थानमाह-तथा बन्धो गृहवासः, सदा तद्धत्वनुष्ठानात् कोशकारकीटवदित्येवं चिन्तनीयमिति त्रयोदशं स्थानम्. ।।१३।। (सु.) तथा बन्धो गृहवासः सदा तद्धत्वनुष्ठानात्, कोशकारकीटकवत् इत्येतच्चिन्तनीयं इति त्रयोदशं स्थानम् ।।१३।। (१४) बहुसाहारणा गिहीणं कामभोगा। (ति.) तथा, बहुसाधारणा गृहिणां कामभोगा:-चौर-राजकुलादिसामान्याः । कोऽर्थस्तैरप्य-पहार्याः-इति चतुर्दशम् ।।१४।। (स.) अथ चतुर्दशं स्थानमाह-तथा पर्यायो मोक्षो निरन्तरं कर्मनिगडानामपगमनेन मुक्तवदित्येवंचिन्तनीयमिति चतुर्दशं स्थानम्. ।।१४।।

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416