Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 376
________________ १ चूलिका - रतिवाक्या ३६१ 1 पावाणं चेत्यादि, पापानां च अपुण्यरूपाणां चशब्दात् पुण्यरूपाणां च खलु भोः ! कृतानां कर्म्मणां, खलुशब्दः कारितानुमतविशेषणार्थः, भो इति शिष्यामन्त्रणे, कृतानांमनो-वाक्-काय-योगैरोघतो निर्वर्त्तितानां कर्मणां ज्ञानावरणीयाद्यसातावेदनीयादीनां, प्राक्-पूर्वमन्यजन्मसु दुश्चरितानां प्रमादकषायज - दुश्चरितजनितानि दुश्चरितानि कारणे कार्योपचारात्, दुश्चरितहेतूनि वा दुश्चरितानि, कार्ये कारणोपचारात्, एवं दुष्पराक्रान्तानांमिथ्यादर्शनाविरतिजदुष्पराक्रान्तजनितानि दुष्पराक्रान्तानि, हेतौ फलोपचारात्, दुष्पराक्रान्तहेतूनि वा दुष्पराक्रान्तानि, फले हेतूपचारात् इह च दुश्चरितानि मद्यपानाश्लीलानृतभाषणादीनि, दुष्पराक्रान्तानि तु वध - बन्धनादीनि तदमीषां एवंभूतानां कर्मणां वेदयित्वाऽनुभूय, फलमिति वाक्यशेषः, किं ?, मोक्षो भवति - प्रधानपुरुषार्थो भवति, नास्त्यवेदयित्वा - न भवति अननुभूय, अनेन सकर्मकमोक्षव्यवच्छेदमाह-इष्यते च स्वल्पकर्मोपेतानां, कैश्चित् सहकारिनिरोधतस्तत्फलादानवादिभिस्तत्, तदपि नास्त्यवेदयित्वा मोक्षः, तथारूपत्वात् कर्मणः, स्वफलादाने कर्मत्वायोगात्, तपसा वा क्षपयित्वा-अनशनप्रायश्चित्तादिना वा विशिष्टक्षायोपशमिक - शुभभावरूपेण तपसा प्रलयं नीत्वा, इह च वेदनमुदयप्राप्तस्य व्याधेरिवानारब्धोपक्रमस्य क्रमशः, अन्यानिबन्धनपरिक्लेशेन, तपःक्षपणं तु सम्यगुपक्रमेणानुदीर्णोदीरणदोषक्षपणवद्, अन्यनिमित्तमुपक्रमेणापरिक्लेशमित्यतस्तपोऽनुष्ठानमेव श्रेय इति न किञ्चिद्गृहाश्रमेणेति संप्रत्यु - पेक्षितव्यभित्यष्टादशं पदं भवति - अष्टादशं स्थानं भवति ।। १८ ।। भवइ य इत्थ सिलोगो -- जया चयइ (ई) धम्मं, अणज्जो भोगकारणा । से तत्थ मुच्छिए बाले, आयइं नावबुज्झइ ।। चू.१.१ ।। (ति.) भवति चात्र श्लोकः- तत्र अद्यश्लोकः इह जात्या एक वचनं, ततश्चोक्तायुक्तसङ्गहपरा जातिरिति [जया-] यदा- अष्टादशसु व्यावर्तनकारणेषु सत्स्वपि त्यजति । धर्मम्-चारित्रलक्षणम् । अनार्य इव, अनार्यः- म्लेच्छचेष्टितः । भोगकारणात् भोगनिमित्तम् । स-धर्मत्यागी । तत्र-भोगेषु । मूर्च्छितः - गृद्धः । बालः - अज्ञः । आयतिम् - आगामिकालम् । नावबुध्यते ।।चू.१.१.।। (स.) भवति चात्र श्लोकः अत्र' इत्यष्टादशस्थानानां संबन्धे, उक्ता-ऽनुक्तसङ्ग्रहपर

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416