SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३५६ दशवैकालिकं-टीकात्रिकयुतम् (६) वंतस्स पडियाइयणं । (ति.) तथा वान्तस्य प्रत्यापानम् - भुक्तोज्झितपरिभोग इत्यर्थः । वान्ताश्च भोगाः प्रव्रज्याङ्गीकरणेन । तेषां पुनरादानं वान्ताहारभोजनकल्पम्, अधमजनस्यापि निन्दनीयं, दुर्गतिव्याधिजनकं च । ततः किमेतेनेति षष्ठम् ||६|| (स.) अथ षष्ठं स्थानमाह - वान्तस्य प्रत्यापानं भुक्तोज्झितपरिभोग इत्यर्थः, अयं च श्व-शृगालादिक्षुद्रप्राणिभिराचरितः सतां निन्द्यः, पुनर्व्याधिदुःखजनकः, वान्ताश्च भोगाः प्रव्रज्याङ्गीकरणेन, एतत्प्रत्यापानमेवं भूतमेवं चिन्तनीयमिति षष्ठं स्थानम् ।।६।। (सु.) तथा वान्तस्य प्रत्यापानं भुक्तोज्झितपरिभोग इत्यर्थः, अयं च श्व-शृगालादिक्षुद्रसत्त्वाचरितः सतां निन्द्यो व्याधिदुःखजनकः, वान्ताश्च भोगाः प्रव्रज्याङ्गीकरणेन, एतत्प्रत्यापानमप्येवंभूतमेव चिन्तनीयमिति षष्ठं स्थानम् ।।६।। (७) अहरगइ-वासोवसंपया । (ति.) अधरगतिवासोपसम्पत्-अधरगतिर्नरकगतिस्तिर्यग्गतिश्च । तत्र वासाय उपसम्पत्-अङ्गीकरणम् । तदेतदुत्प्रव्रजनं तदधोगतिगतौ सत्यङ्कारकल्पम् । ततः किमेतेन ? इति सप्तमम् ||७|| (स.) अथ सप्तमस्थानमाह - तथाधोगतिवासोपसम्पत्, अधोगतिर्नरकगतिस्तिर्यग्गतिर्वा, तस्यां वसनमधोगतिवासः, एतन्निमित्तभूतं कर्म गृह्यते, तस्योपसम्पत्, सामीप्येनाङ्गीकरणं यदेतदुत्प्रव्रजनमेवं चिन्तनीयमिति सप्तमं स्थानम् ।।७।। (सु.) तथा अधोगतिः-नरकतिर्यग्गतिः, तस्यां वसनं अधोगतिवासः, एतन्निमित्तभूतं कर्म गृह्यते, तस्योपसंपत् - सामीप्येनाङ्गीकरणं यदेतदुत्प्रव्रजनं, एवं चिन्तनीयमिति सप्तमं स्थानम् ।।७।। (८) दुल्लभे य खलु भो गिहीणं धम्मे गिहवासमज्झे वसंताणं । (ति) दुर्लभः खलु गृहिणां धर्मः गृहपाशमध्ये वसताम् गृहे पाशकल्पाः - कलत्रपुत्रादयः, तन्मध्ये वसताम्, अनादिभवाभ्यासाददवरकं बन्धनम् । उक्तं च - अहह ! गृही किमु कुशली, वध्वा संसारसागरे क्षिप्तः । यदि बत लभते पोतं, तेनापि निमज्यते सुतराम् ।।१।। इत्यष्टमम् ।।८। (स.) अथाष्टमं स्थानमाह - भो इत्यामन्त्रणे गृहिणां गृहस्थानां धर्मः परमनिर्वृतिजनको दुर्लभ एव, किं कुर्वतां गृहिणां ? गृहपाशमध्ये वसताम् अत्र गृहशब्देन
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy