________________
१ चूलिका - रतिवाक्या
३५५
आयुषोऽल्पत्वात् । इदं च सोढं संयमानतिचरणेन कर्मनिर्जरया स्वर्गापवर्गाय । असोढं वानन्तदुःखाय नरकाय । अतः किं गृहाश्रमेण' ? इति चतुर्थम् ||४||
(स.) अथ चतुर्थस्थानमाह - तथेदं च मे दुःखं न चिरकालोपस्थायि भविष्यति, इदं चानुभूयमानं मम श्रामण्यमनुपालयतो दुःखं शारीर - मानसं कर्मफलं परीषहजनितं चिरकालमुपस्थातुं शीलं न भविष्यति, श्रामण्यपालनेन परीषहनिराकरणात् कर्मनिर्जरणात् संयमराज्यस्य प्राप्तिः, इतरथा महानरकादौ विपर्ययः, अतः किं गृहाश्रमेण ? - इति सम्प्रत्युपेक्षितव्यमिति चतुर्थं स्थानम् ।।४।।
(सु.) तथा 'इदं च मे दुःखं न चिरकालोपस्थायि भविष्यति इदं चानुभूयमानं मम श्रामण्यमनुपालयतो दुःखं शारीर- मानसं कर्मफलं परीषहजनितं, न चिरकालमुपस्थातुं शीलं भविष्यति, श्रामण्यपालनेन परीषहनिराकृतेः कर्म्मनिर्ज्जरणात्, संयमराज्यप्राप्तेः, इतरथा महानरकादौ विपर्ययः, अतः किं गृहाश्रमेण ? - इति संप्रत्युपेक्षितव्यमिति चतुर्थं स्थानम् ।।४।।
(५) ओमजणपुरक्कारे ।
(ति.) तथा अवम-जनपुरस्कारः- उत्प्रव्रजितेन हि अवमजनस्यापि अभ्युत्थानादिकः पुरस्कारः कर्तव्यः । अधार्मिकराजराज्ये तु शेषजनवत् सोऽपि वेष्टिं कार्यते । खरकर्मस्वपि नियोज्यते । इति प्रथममेवाधर्मफलम् । प्रव्रज्यां च पालयन् राजामात्यादिभिः पूज्यते । अतः किं गृहाश्रमेण ? ' इति पञ्चमम् ।।५।।
(स.) अथ पञ्चमस्थानमाह-'ओमजणपुरक्कार इति न्यूनजनपूजा, प्रव्रजितो हि धर्मप्रभावाद् राजामात्यादिभिरभ्युत्थानासनाञ्जलिप्रग्रहादिभिः पूज्यते, उत्प्रव्रजितेन तु न्यूनजनस्यापि स्वव्यसनगुप्तयेऽभ्युत्थानादि कार्यम्, अधार्मिकराजविषये वा वेष्टिप्रायात् क़रकर्मणो नियमत एवेहैव चेदमधर्मफलम्, अतः किं गृहाश्रमेण ? - इति सम्प्रत्युपेक्षितव्यमिति पञ्चमं स्थानम् एवं सर्वत्र योजनीयम्. ।।५।।
(सु.) तथा ओमजणपुरस्का (क्का) रमिति न्यूनजनपूजा, प्रव्रजितो हि धर्मप्रभावाद् राजामात्यादिभिरभ्युत्थानासनाञ्जलिप्रग्रहादिभिः पूज्यते, उत्प्रव्रजितेन तु न्यूनजनस्यापि स्वव्यसनगुप्तयेऽभ्युत्थानादि कार्य, अधार्मिकराजविषये च वेष्टिप्रयोक्तुः खरकर्मणो नियमत एवेदमधर्मफलं, अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति पञ्चमं स्थानं, एवं सर्वत्र क्रिया योजनीया ||५||
૨૪