________________
१ चूलिका - रतिवाक्या
३५७ पाशकल्पाः पुत्र-कलत्रादयो गृह्यन्ते, तन्मध्ये वसतामनादिभवाभ्यासादकारणं स्नेहबन्धनमेत-च्चिन्तनीयमित्यष्टमं स्थानम्. ।।८।।
(सु.) तथा दुर्लभः खलु भो ! गृहिणां धर्म इति प्रमादबहुलत्वाद् दुर्लभ एव, भो ! इत्यामन्त्रणे, गृहस्थानां परमनिर्वृत्तिजनको धर्मः, किंविशिष्टानाम् ?-इत्याहगृहवासमध्ये वसतामित्यत्र गृहशब्देन पाशकल्पाः पुत्रकलत्रादयो गृह्यन्ते, तन्मध्ये वसतामनादि-भवाभ्यासादकारणं स्नेहबन्धनं, एतच्चिन्तनीयमित्यष्टमं स्थानम् ।।८।।
(९) आयंके से वहाय होइ ।
(ति.) आतङ्कस्तस्य वधाय भवति-आतङ्कः-सद्यो घाती विसूचिकादिरोगः । तस्य गृहिणो धर्मबन्धुरहितस्य दुर्गतिरूपाय विनाशाय भवति । स च दुर्गतिरूपो विनाशः । उत्प्रव्रजितस्यानेकेषु भवेषु भावि 'इति नवमम् ।।९।।
(स.) अथ नवमस्थानमाह-तथा आतङ्कः सद्योघाती विषू(सू)चिकादिरोगः, से इति तस्य गृहिणो धर्मबन्धुरहितस्य वधाय विनाशाय भवति, तथाविधवध-श्चानेकवधहेतुरेवं चिन्तनीयमिति नवमं स्थानम्. ।।९।। ___ (सु.) तथा आतङ्कस्तस्य वधाय भवति, आतङ्कः-सद्योघाती विशू(सू)चिकादिरोगः, से-तस्य गृहिणो धर्मबन्धुरहितस्य, वधाय-विनाशाय भवति, तथा वधश्चानेकवधहेतुः, एवं चिन्तनीयमिति नवमं स्थानम् ।।९।।
(१०) संकप्पे से वहाय होइ ।
(ति.) सङ्कल्पस्तस्य वधाय भवति-इष्टानिष्टवियोगसंयोगजो मानसो विकल्पः । तस्योत्प्रव्रजितस्य साधोर्विकलीभूतस्य चित्तवैकल्यापत्तेः भूतादिग्रहग्रहणे वा दुर्गतौ पातः स्यात्-इति दशमम् ।।१०।। ..
(स.) अथ दशमं स्थानमाह-तथा संकल्प इष्टाऽनिष्ट-विप्रयोगप्राप्तेर्यो मनःसम्बन्ध्यातङ्कः, स तस्य गृहिणः, तथा चेष्टा-योगान्मिथ्याविकल्पाभ्यासेन प्रग्रहादिप्राप्तेर्वधाय भवत्येतच्चिन्तनीयमिति दशमं स्थानम्. ||१०||
(सु.) तथा संकल्पः तस्य वधाय भवति, संकल्पः-इष्टानिष्ट-प्रयोगसंप्रयोगप्राप्तिजो मानस आतङ्कः, तस्य गृहिणः, तथा चेष्टायोगात् मिथ्याविकल्पाभ्यासेन ग्रहादिप्राप्तेर्वधाय भवति इत्येतच्चिन्तनीयमिति दशमं स्थानम् ।।१०।।
(११) सोवक्केसे गिहिवासे निरक्केसे परियाए । (ति.) तथा सोपक्लेशो गृहिवासः-उपक्लेशा:-कृषि-पाशुपाल्य-वाणिज्यादि