Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
(।। अथ प्रथमा रतिवाक्या चूलिका ।। (सु.) इह खलु भो ! पव्वइएणं उप्पन्नदुक्खेणं संजमे अरइसमावन्नचित्तेणं ओहाणुप्पेहिणा अणोहाइएणं चेव हयरस्सि-गयंकुस-पोयपडागारभूयाई इमाइं अट्ठारस ठाणाई सम्मं सुपडिलेहियव्वाणि भवंति । ___ (ति.) एतासां च चतसृणां चूलिकानां श्रीसीमन्धरस्वामिना श्रीमुखेन यक्षिण्या आर्यिकायाः स्वयमुपदिष्टानां मध्याद् ये द्वे चूलिके श्रीसङ्घन दशवैकालिकस्यान्ते योजिते । अद्यापि तत्पर्यन्ते तथैव पठ्यते । तयोराद्या रतिवाक्याभिधा चूलिका । तस्या इदमादिसूत्रम् - इह-प्रवचने । खलशब्दः-एवार्थे, स चाग्रे सम्यक् शब्दाद् योज्यः । भा-इत्यामन्त्रणे। प्रव्रजितेन-साधुना । उत्पन्नदुःखेन-सञ्जात-शीतादिशारीरकामभोगाद्यनाप्तिरूपमानसदुःखेन । संयमे-वर्णितस्वरूपे । अरतिसमापन्नचित्तेनउद्विग्नमनसा संयमनिर्विन्नभावेनेत्यर्थः । अवधावनोत्प्रेक्षिणा-अवधावनं संयमादपसरणं, तदुत्प्रेक्षितुं शीलमस्य स तथा तेन, उत्प्रव्रजितुकामेन । अनवधावितेनैव-अनुत्प्रव्रजितेनैव । अमूनि-वक्ष्यमाणानि । अष्टादशस्थानानि । सम्यग्-अत्रैव शब्दयोगः, सम्यगेव सम्प्रत्युपेक्षितव्यानि । सुष्टु द्रष्टव्यानि भवन्ति । किं विशिष्टानि ? हयरश्मिगजाकुश-पोतपटाकाराणि-अश्वखलिन-गजाकुश-वोहित्थसितपटतुल्यानि, यथा हयादीनामुन्मार्ग-प्रवृत्तिकामानां रश्म्यादयो निर्वृत्तिहेतवः, तथैवैतान्यपि, संयमादुन्मार्गप्रवृत्तिकामानां भव्यसत्त्वानाम् ।
(स.) इह, इति-व्याख्यातं सभिक्षुनामकं दशममध्ययनम्, अथ चूडाख्यमारभ्यते, अस्य चायमभिसम्बन्धः-पूर्वाध्ययने भिक्षुगुणा उक्ताः, स च भिक्षुरेवंभूतोऽपि कदाचित् कर्मवशात् कर्मबलाच्च सीदेत्, तत्-तस्य भिक्षोः स्थिरीकरणं कर्तव्यं, तदर्थं चूडाद्वयं कथ्यते-अथ प्रथमचूलिका प्रारभ्यते इह खलु भोः ! प्रव्रजितेन साधुना, इह खलु प्रवचने निश्चयेन, भो ! इति आमन्त्रणे, अमूनि वक्ष्यमाणान्यष्टादश स्थानानि सम्यक्प्रकारेण सम्प्रत्युपेक्षितव्यानि सुष्ठ्वालोचनीयानि भवन्ति-इत्युक्तिः, किम्भूतानि? अष्टादशस्थानानि? हयरश्मि-गजाकुश-पोतपताकाभूतानि, अश्वखलिन-गजाकुशबोहित्थसितपटतुल्यानि, अयं परमार्थः-यथा हयादीनामुन्मार्गप्रवृत्तिं वाञ्छतां रश्म्यादयो नियमनहेतवः, तथैतान्यपि संयमादुन्मार्गप्रवृत्तिं वाञ्छतां भव्यजीवानामपि नियमनहेतवः, १. इत्यममुना प्रबन्धेन एषा चूलिकोत्पत्तिः । प्रबन्धोऽयं अन्यत्र ज्ञातव्यः ।

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416