SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ (।। अथ प्रथमा रतिवाक्या चूलिका ।। (सु.) इह खलु भो ! पव्वइएणं उप्पन्नदुक्खेणं संजमे अरइसमावन्नचित्तेणं ओहाणुप्पेहिणा अणोहाइएणं चेव हयरस्सि-गयंकुस-पोयपडागारभूयाई इमाइं अट्ठारस ठाणाई सम्मं सुपडिलेहियव्वाणि भवंति । ___ (ति.) एतासां च चतसृणां चूलिकानां श्रीसीमन्धरस्वामिना श्रीमुखेन यक्षिण्या आर्यिकायाः स्वयमुपदिष्टानां मध्याद् ये द्वे चूलिके श्रीसङ्घन दशवैकालिकस्यान्ते योजिते । अद्यापि तत्पर्यन्ते तथैव पठ्यते । तयोराद्या रतिवाक्याभिधा चूलिका । तस्या इदमादिसूत्रम् - इह-प्रवचने । खलशब्दः-एवार्थे, स चाग्रे सम्यक् शब्दाद् योज्यः । भा-इत्यामन्त्रणे। प्रव्रजितेन-साधुना । उत्पन्नदुःखेन-सञ्जात-शीतादिशारीरकामभोगाद्यनाप्तिरूपमानसदुःखेन । संयमे-वर्णितस्वरूपे । अरतिसमापन्नचित्तेनउद्विग्नमनसा संयमनिर्विन्नभावेनेत्यर्थः । अवधावनोत्प्रेक्षिणा-अवधावनं संयमादपसरणं, तदुत्प्रेक्षितुं शीलमस्य स तथा तेन, उत्प्रव्रजितुकामेन । अनवधावितेनैव-अनुत्प्रव्रजितेनैव । अमूनि-वक्ष्यमाणानि । अष्टादशस्थानानि । सम्यग्-अत्रैव शब्दयोगः, सम्यगेव सम्प्रत्युपेक्षितव्यानि । सुष्टु द्रष्टव्यानि भवन्ति । किं विशिष्टानि ? हयरश्मिगजाकुश-पोतपटाकाराणि-अश्वखलिन-गजाकुश-वोहित्थसितपटतुल्यानि, यथा हयादीनामुन्मार्ग-प्रवृत्तिकामानां रश्म्यादयो निर्वृत्तिहेतवः, तथैवैतान्यपि, संयमादुन्मार्गप्रवृत्तिकामानां भव्यसत्त्वानाम् । (स.) इह, इति-व्याख्यातं सभिक्षुनामकं दशममध्ययनम्, अथ चूडाख्यमारभ्यते, अस्य चायमभिसम्बन्धः-पूर्वाध्ययने भिक्षुगुणा उक्ताः, स च भिक्षुरेवंभूतोऽपि कदाचित् कर्मवशात् कर्मबलाच्च सीदेत्, तत्-तस्य भिक्षोः स्थिरीकरणं कर्तव्यं, तदर्थं चूडाद्वयं कथ्यते-अथ प्रथमचूलिका प्रारभ्यते इह खलु भोः ! प्रव्रजितेन साधुना, इह खलु प्रवचने निश्चयेन, भो ! इति आमन्त्रणे, अमूनि वक्ष्यमाणान्यष्टादश स्थानानि सम्यक्प्रकारेण सम्प्रत्युपेक्षितव्यानि सुष्ठ्वालोचनीयानि भवन्ति-इत्युक्तिः, किम्भूतानि? अष्टादशस्थानानि? हयरश्मि-गजाकुश-पोतपताकाभूतानि, अश्वखलिन-गजाकुशबोहित्थसितपटतुल्यानि, अयं परमार्थः-यथा हयादीनामुन्मार्गप्रवृत्तिं वाञ्छतां रश्म्यादयो नियमनहेतवः, तथैतान्यपि संयमादुन्मार्गप्रवृत्तिं वाञ्छतां भव्यजीवानामपि नियमनहेतवः, १. इत्यममुना प्रबन्धेन एषा चूलिकोत्पत्तिः । प्रबन्धोऽयं अन्यत्र ज्ञातव्यः ।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy