Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 361
________________ ३४६ दशवैकालिकं-टीकात्रिकयुतम् उवहिम्मि अमुच्छिए अगिद्धे, अनायउंछं पुलनिप्पुला ए । कय-विक्कय-संनिहिओ विरए, सव्वसंगावगए य जे,स भिक्खू ।।१०.१६ ।। (ति.) तथा-उपधौ-वस्त्रादिरूपे । अमूर्छितः-तत्र मोहत्यागेन । अगृद्धःअनाकाङ्क्षी। अज्ञातोञ्छं चरति, अज्ञातोञ्छमिव अज्ञातोञ्छम-यथा अज्ञातोञ्छम् अल्पं भवति तथा उपधिमप्यगृद्धः, स्तोकं स्तोकं, भावशुद्धं धर्मार्थितया दत्तं गृह्णाति यः सोऽज्ञातोञ्छचारी। तथा पुल-समुच्छ्रये [ ], पुलतीति पुलः, अगृद्धत्वाच्चारित्रे, समुच्छ्रितः, प्राकृतत्वाद्विभक्तिलोपः। निःपुलाकः-संयमासारतापादकदोषरहितः । क्रयविक्रय-सन्निधिभ्यो विरतः । सर्वसङ्गापगतश्च यः । स भिक्षुः ।।१०.१७।। (स.) पुनराह-उवहिम्मि 'इति-यः साधुरज्ञातोञ्छं चरति, भावशुद्ध स्तोकं स्तोकमित्यर्थः, स भिक्षुः, किम्भूतः साधुः ? उपधौ वस्त्रादिलक्षणे, अमूर्छितस्तद्विषयमोहत्यागेन, पुनः किम्भूतः साधुः ? अगृद्धः प्रतिबन्धाभावेन, पुलकः, पुल समुच्छ्रये [ ], पुलतीति पुलकः, चारित्रगृद्धत्वात् समुच्छ्रितः, पुनः किम्भूतः साधुः? निष्पुलाकः, संयमस्यासारतोत्पादका ये दोषास्तै रहितः, पुनः किम्भूतः साधुः ? क्रयविक्रय-सन्निधिभ्यो विरतः, द्रव्य-भावभेदभिन्न-क्रय-विक्रयपर्युषितस्थापनेभ्यो निवृत्तः, पुनः किम्भूतः साधुः ? सर्वद्रव्य-भावसङ्गरहितः ।।१०.१६ ।। (सु.) तथा- उवहिम्मि...इति, उपधौ-वस्त्रादिलक्षणे, अमूर्छितः-तद्विषयमोहत्यागेन, अगृद्धः-प्रतिबन्धाभावेन, अज्ञातोञ्छं चरति भावपरिशुद्धं, स्तोकं स्तोकमित्यर्थः, पुलाकनिष्पुलाकः-संयमा-ऽऽसारता-ऽऽपादकदोषरहितः, क्रय-विक्रय-संनिधिभ्यो विरत:द्रव्य-भावभेदभिन्नक्रय-विक्रय-पर्युषितस्थापनेभ्यो निवृत्तः, सर्वसङ्गापगतश्च योऽपगतद्रव्य-भावसङ्गश्च यः, स भिक्षुरिति ।।१०.१६ ।। अलोलभिक्खू न रसेसु गिद्धे, उंछं चरे जीविय नावकंखे । इडिं च सक्कारणपूयणं च, चए ठियप्पा अणिहे स भिक्खू ।।१०.१७।। (ति.) किञ्च-अलोलः-नाप्राप्तप्रार्थकः, भिक्षुः-साधुः, अलोलश्चासौ भिक्षुश्च अलोलभिक्षुः। न रसेषु । गृद्धः-आसक्तः । उञ्छं चरति । १. णाभिकंखे [अन्यत्र पाठभेदः] २. अन्यत्र टीकायां मूले च अलोल इति भिक्खु-इति व्यस्तपादौ.

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416