________________
दशवैकालिकं- टीकात्रिकयुतम्
(स.) न...इति-तथा यः परं स्वपक्षशिष्येभ्यो व्यतिरिक्तम् 'अयं कुशील इति न वदति, तद्वदने चाप्रीतिदोष उत्पद्यते. स्वपक्षशिष्यं तु शिक्षाग्रहणबुद्ध्या वदत्यपि, पुनर्येनान्यः कश्चित् कुप्यति, न तद् यो ब्रवीति दोषसद्भावेऽपि किमित्याह-ज्ञात्वा प्रत्येकं पुण्यपापं नान्यसम्बन्ध्यन्यस्य भवति, अग्निदाहवेदनावत्, एवं सत्स्वपि गुणेष्वात्मानं यो न समुत्कर्षति, न स्वगुणैर्गर्वमायाति स भिक्षुः । । १०.१८ । ।
३४८
(सु.) तथा - न परं ....इति, न परं स्वपक्षविनेयव्यतिरिक्तं वदति - अयं कुशीलस्तदप्रीत्यादि-दोषप्रसङ्गात्, स्वपक्षविनेयं तु शिक्षाग्रहणबुद्ध्या वदत्यपि, सर्वथा येनान्यः कश्चित् कुप्यति न तद् ब्रवीति दोषसद्भावेऽपि किम् ?-इत्यत आह-ज्ञात्वा प्रत्येकं पुण्यपापं, नान्यसम्बन्धि अन्यस्य भवति अग्निदाहवेदनावत्, एवं सत्स्वपि गुणेषु नात्मानं समुत्कर्षति-न स्वगुणैर्गर्वमायाति यः स भिक्षुरिति ।।१०.१८।।
न जाइमत्ते ने रूवमत्ते, न लाभमत्ते न सुएण मत्ते ।
मयाणि सव्वाणि विवज्जयंतो, धम्मज्झाणरए य जे, स भिक्खू ।।१०.१९ ।। (ति.) मदप्रतिषेधमाह
-
( न जाइ... इति) स्पष्टम् ।।१०.१९ ।।
(स.) अथ मदप्रतिषेधार्थमाह न जाइ... इति यः साधुर्जातिमत्तो न भवति, 'यथाहं ब्राह्मणः, पुनर्यो रूपमत्तो न भवति, 'यथाहं रूपवानादेयः, पुनर्यो लाभमत्तो न भवति, ‘यथाहं लाभवान्, पुनर्यो न श्रुतमत्तो भवति 'यथाहं पण्डितः, अनेन कुलमदादिपरिग्रहः, तदेवाह-मदान् सर्वान् कुलादिविषयान् विवर्ज्य परित्यज्य धर्मध्यानरतो भवेत् स भिक्षुः. ।।१०.१९।।
(सु.) मदप्रतिषेधार्थमाह-न जाइमत्ते... 'इति, न जातिमत्तो यथाऽहं ब्राह्मणः क्षत्रियो वा, न चापि रूपमत्तो 'यथाऽहं रूपवान्, आदेयः, न लाभमत्तो 'यथाऽहं लाभवान्, न श्रुतमत्तो 'यथाऽहं पण्डितः, अनेन कुलमदादिपरिग्रहः, अत एवाहमदान् सर्वानपि कुलादिविषयान् विवर्ज्य-परित्यज्य धर्म्मध्यानरतो - यो यथागमं तत्र सक्तः स भिक्षुरिति ।।१०.१९ । ।
पवेयए अज्जवयं महामुणी, धम्मे ठिओ ठावई परं पि ।
निक्खम्म वज्जिज्ज कुसीललिंगं, न यावि हासकुहएँ य जे, स भिक्खू ।।१०.२०।।
१ न च रूव...इति मुद्रितमन्यत्र, 'विवज्जइत्ता' च, न विवृत्तं च (ति) टीकायां, किन्तु अन्यत्र तु विवर्ण्य' इति विवृतम्, अतः मूले 'विवज्जइत्ता' पाठः शुद्धः प्रतिभाति २. सर्वानपीति पाठान्तरम् । ३. 'ठावयई' इति मुद्रितमन्यत्र । ४. 'कुहए जे, स - इति मुद्रितमन्यत्र ।