________________
दशमम् अध्ययनम्
३४७ आह-प्रागप्येतदुक्तम् ?-सत्यम् । प्रागुपधिमधिकृत्योक्तम् । इह त्वाहारमिति न पौनरुक्त्यम् ।
जीवितम्-असंयमजीवितम् । नावकाङ्क्षति | ऋद्धिं च-आमोषध्यादिकाम् । सत्कारणं च-वस्त्रादिभिः । पूजनं च-स्तवनादिना । त्यजति-न तदर्थमेव यतते | स्थितात्मा-ज्ञानादिषु । अनीहो यः स भिक्षुः ।।१०.१७ ।।
(स.) अलोल...इति-पुनः किञ्च यो भिक्षुरुञ्छं चरति, भावोञ्छं सेवत इति पूर्ववत्, नवरं तत्रोपधिमाश्रित्योक्तम्, इह त्वाहारमाश्रित्येति न पुनरुक्तिदोषः, तथा यो जीवितमसंयमजीवितं नाभिकाङ्क्षते न वाञ्छति, य ऋद्धिं चामर्षोषध्यादिरूपां, तथा सत्कारं वस्त्रादिभिः, तथा पूजनं च स्तवादिना, त्यजति, नैतदर्थमेव यतते, स्थितात्मा ज्ञानादिषु, पुनः किम्भूतो भिक्षुः ? अनिभो मायारहितः, पुनः किम्भूतो भिक्षुः ? अलोलोऽप्राप्तप्रार्थनातत्परो न, पुनर्यो रसेषु न गृद्धो न प्रतिबद्धः, स भिक्षुर्भवति ।
(सु.) किञ्च-अलोल...इति, अलोलो नाम नाप्राप्तप्रार्थनापरो, भिक्षुः-साधुर्न रसेषु गृद्धः, प्राप्तेष्वपि अप्रतिबद्ध इति भावः, उञ्छं चरति भावोञ्छमेवेति पूर्ववत् । नवरं तत्रोपधिमाश्रित्योक्तमिह त्वाहारमित्यपौनरुक्यम् । तथा जीवितं नाभिकाङ्क्षते असंयमजीवितं, तथा ऋद्धिं च-आमर्पोषध्यादिरूपां, सत्कारं-वस्त्रादिभिः, पूजनं चस्तवादिना, त्यजति नैतदर्थं एव यतते, स्थितात्मा ज्ञानादिषु, अनिभ इत्यमायो यः स भिक्षुरिति ।।१०.१७।।
न परं वइज्जासि अयं कुसीले, जेणऽन्न कुप्पिज्ज नं तं वइ(ए)ज्जा | जाणिय पत्तेयं पुन्नपावं, अत्ताणं न समुक्कसे जे, स भिक्खू ।।१०.१८ ।। (ति.) तथा-न । परम्-स्वशिष्यादन्यम् वदति 'अयं कुशील इति-तदप्रीतिसम्भवात्, स्वशिष्यं तु शिक्षाबुद्ध्या वदत्यपि । येन न अन्यः कुप्यति । तम्-सन्तमपि तद्दोषम् । न वदति । किमित्यत आह ज्ञात्वा प्रत्येकं पुण्यपापम्-न ह्यन्यसम्बन्ध्यन्यस्य लगति। सत्स्वपि च गुणेषु नात्मानं समुत्कर्षति-न स्वगुणैर्गर्वमुद्वहति । यः स भिक्षुः ||१०.१८ ।।
१. (स.) टी. प्रतौ 'च'इति मुद्रितम् २. पत्तेयं इति च पाठः अन्यत्र विवृतं च तथैव ।