________________
दशमम् अध्ययनम्
३४९
(ति.) प्रवेदयति-कथयति । आर्यपदम् - शुद्धधर्मपदम् । महामुनिः धर्मे स्थितः । स्थापयति । परमपि-श्रोतारम् । निःक्रम्य वर्जयति । कुशीललिङ्गम् - कुशीलचेष्टितम्, आरम्भादि । न चापि हास्य- कुहकः - हास्यकारी, कुहकम् - इन्द्रजालं यस्य स तथा एवंविधो न यः स भिक्षुः । ।१०.२० ।।
(स.) पवेअये (ए) इति - यो महामुनिः, आर्यपदं शुद्धधर्मपदं परोपकाराय प्रवेदयति कथयति, पुनर्यो धर्मे स्थितः परमपि श्रोतारं धर्मे स्थापयति, पुनर्यो निष्क्रम्य गृहान्निःसृत्य कुशीललिङ्गमारम्भादिना कुशीलचेष्टितं वर्जयति, पुनर्यो हास्यकुहको न भवति, हास्यकारिकुहकयुक्तो न स्यात्, स भिक्षुः ।।१०.२० ।।
(सु.) पवेयए इत्यादि, प्रवेदयति-कथयति, आयार्यपदं - शुद्धधर्म्मपदं परोपकाराय महामुनिः-शीलवान् ज्ञाता एवंभूत एव वस्तुतो नान्यः, किम् ? - इत्येतदेवमित्याहधर्म्मो स्थितः स्थापयति परमपि श्रोतारं तत्रादेयभावप्रवृत्तेः, तथा निष्क्रम्य वर्जयति कुशीललिङ्गं-आरम्भादि कुशीलचेष्टितं, तथा न चापि हास्यकुहको - हास्यकारिकुहकयुक्तो यः स भिक्षुरिति । ।१०.२० । ।
तं देहवासं असुइं असासयं, सया चए निच्चहियट्ठियप्पा | छिंदित्तु जाईमरणस्स बंधणं, उवेइ भिक्खू अपुणागमं गई गय त्ति बेमि ।।१०.२१।।
(ति) भिक्षुभावफलमाह - तं देहवासम् । अशुचिम्-शुक्र- शोणितोद्भवत्वात् । अशाश्वतम्- म्-प्रतिक्षणं नवनवपर्यायसम्भवात् । सदा त्यजति - ममत्वत्यागेन । नित्यहितेमोक्षसाधने । सम्यग्दर्शनादौ स्थितात्मा सुस्थितः । छित्वा जातिमरणबन्धनम्कर्मजालम् । उपैति भिक्षुः । अपुनरागमाम् - जन्मादिरहिताम् । गतिम् - सिद्धिगतिम् । गत इति ब्रवीमीति पूर्ववत् ।। १०.२१ । । श्रीतिलकाचार्यटीका समाप्ता ।।
,
(स.) अथ भिक्षुभावस्य फलमाह - भिक्षुरेवंविधो गतिं सिद्धिगतिमुपैति गच्छति किम्भूतां गतिम् ? अपुनरागमां पुनर्जन्मादिरहितां, किं कृत्वा ? जाति-जरा-मरणस्य बन्धनं छित्त्वा, पुनर्भिक्षुर्देहवासं सदा त्यजति ममतात्यागेनैतं प्रत्यक्षेणोपलभ्यमानं, किम्भूतं देहवासम ? अशुचि, शुक्रशोणितमयत्वात्, पुनः किम्भूतं देहवासम् ? अशाश्वतं प्रतिक्षणं क्षीयमाणत्वात् किम्भूतो भिक्षुः ? नित्यहिते मोक्षसाधने सम्यग्दर्शनादौ
१. अन्यत्र 'गइं ति बेमि' मुद्रितं, विवृतं च तथैव (स.) (सु.) टीकयोः ।
-