Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 358
________________ दशमम् अध्ययनम् योऽचलितसमताभावः स भिक्षुः. ।।१०.११ ।। (सु.) किञ्च जो सहइ...इति, यः खलु महात्मा सहते सम्यग् ग्रामकण्टकान्, ग्रामा-इन्द्रियाणि तद्दुःखहेतवः कण्टकास्तान्, स्वरूपत एवाह - आक्रोशान् प्रहारान् तर्जनांश्चेति, तत्राक्रोशा यकारादिभिः प्रहाराः कशादिभिः, तर्जना असूयादिभिः, तथा भैरवभया-अत्यन्तरौद्रभयजनकाः शब्दाः सप्रहासा यस्मिन् स्थान इति गम्यते, तत्तथा तस्मिन्, वैतालादिकृतार्त्तनादाट्टहास इत्यर्थः, अत्रोपसर्गेषु सत्सु समसुखदुःखसहश्च योऽचलित - सामायिकभावः स भिक्षुरिति ।। १०११ ।। , ३४३ पडिमं पडिवज्जिया मसाणे, नो भीयए भयभेरवाइं दिस्सं । विविहगुणतवोरंए निच्चं, न सरीरचाभिकंखई स भिक्खू ।।१०.१२ ।। (ति.) एतदेव स्पष्टयति- प्रतिमाम् - कायोत्सर्गाभिग्रहरूपाम् । प्रतिपद्य । स्मशाने न बिभेति भैरवभयानि - रौद्रातङ्ककारीणि । वेतालादिरूपशब्दादीनि दृष्ट्वा । विविधगुणतपोरतश्च नित्यम् - गुणाः- मूलोत्तररूपाः, तपः - अनशनादि, तत्र रतः । न शरीरमभिकाङ्क्षति-उपसर्गादिषु सत्स्वपि न शरीरमपेक्षते यः स भिक्षुः । ।१०.१२ । । (स.) एतदेव स्पष्टयति- पडिमं 'इति यः साधुः श्मशाने प्रतिमां मासादिरूपां प्रतिपद्य विधिनाङ्गीकृत्य, न बिभेति, न भयं प्राप्नोति किं कृत्वा ? भैरवभयानि दृष्ट्वा, रौद्रभयहेतूनुपलभ्य वेतालादिशब्दादीनि, किम्भूतः साधुः ? विविधगुण- तपोरतश्च, नित्यं मूलोत्तरगुणेष्वन-शनादितपसि च सक्तः सर्वकालं न शरीरमभिकाङ्क्षते, निस्पृहतया वार्त्तमानिकं भावि च, य इत्थम्भूतः स भिक्षुः ||१०.१२।। (सु.) एतदेव स्पष्टयति-पडिमं 'इति, प्रतिमां - मासादिरूपां प्रतिपद्य सविधिमङ्गीकृत्य, स्मशाने-पितृवने, न बिभेति न भयं याति भैरवभयानि दृष्ट्वा - रौद्रभयहेतूनुपलभ्य वैतालिकादिरूपशब्दादि, विविधगुणतपोरतश्च नित्यं - मूलगुणाद्यनशनादिसक्तश्च सर्वकालं, न शरीरमभिकाङ्क्षते निःस्पृहतया वार्त्तमानिकं भावि च य इत्थंभूतः स भिक्षुरिति ।।१०.१२।। असइं वोसट्टचत्तदेहे, अकुट्टे व हए व लूसिए वा । पुढविसमे मुणी हविज्जा, अनियाणे अकोउहल्ले जे, स भिक्खू ।। १०.१३ ।। १. 'दिअस्स' इत्यन्यत्र मु. पाठः । २. ०रए य निच्चं अन्यत्र चूर्णौ च विवृतं टीकात्रिकेत्र तपोरतश्च' इति । ३. 'अक्कुट्ठे' इति पाठोन्यत्र चूर्णौ च, टीकात्रिके च' आक्रुष्ट 'इति विवृतः ।

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416