________________
दशमम् अध्ययनम्
योऽचलितसमताभावः स भिक्षुः. ।।१०.११ ।।
(सु.) किञ्च जो सहइ...इति, यः खलु महात्मा सहते सम्यग् ग्रामकण्टकान्, ग्रामा-इन्द्रियाणि तद्दुःखहेतवः कण्टकास्तान्, स्वरूपत एवाह - आक्रोशान् प्रहारान् तर्जनांश्चेति, तत्राक्रोशा यकारादिभिः प्रहाराः कशादिभिः, तर्जना असूयादिभिः, तथा भैरवभया-अत्यन्तरौद्रभयजनकाः शब्दाः सप्रहासा यस्मिन् स्थान इति गम्यते, तत्तथा तस्मिन्, वैतालादिकृतार्त्तनादाट्टहास इत्यर्थः, अत्रोपसर्गेषु सत्सु समसुखदुःखसहश्च योऽचलित - सामायिकभावः स भिक्षुरिति ।। १०११ ।।
,
३४३
पडिमं पडिवज्जिया मसाणे, नो भीयए भयभेरवाइं दिस्सं । विविहगुणतवोरंए निच्चं, न सरीरचाभिकंखई स भिक्खू ।।१०.१२ ।।
(ति.) एतदेव स्पष्टयति- प्रतिमाम् - कायोत्सर्गाभिग्रहरूपाम् । प्रतिपद्य । स्मशाने न बिभेति भैरवभयानि - रौद्रातङ्ककारीणि । वेतालादिरूपशब्दादीनि दृष्ट्वा । विविधगुणतपोरतश्च नित्यम् - गुणाः- मूलोत्तररूपाः, तपः - अनशनादि, तत्र रतः । न शरीरमभिकाङ्क्षति-उपसर्गादिषु सत्स्वपि न शरीरमपेक्षते यः स भिक्षुः । ।१०.१२ । ।
(स.) एतदेव स्पष्टयति- पडिमं 'इति यः साधुः श्मशाने प्रतिमां मासादिरूपां प्रतिपद्य विधिनाङ्गीकृत्य, न बिभेति, न भयं प्राप्नोति किं कृत्वा ? भैरवभयानि दृष्ट्वा, रौद्रभयहेतूनुपलभ्य वेतालादिशब्दादीनि, किम्भूतः साधुः ? विविधगुण- तपोरतश्च, नित्यं मूलोत्तरगुणेष्वन-शनादितपसि च सक्तः सर्वकालं न शरीरमभिकाङ्क्षते, निस्पृहतया वार्त्तमानिकं भावि च, य इत्थम्भूतः स भिक्षुः ||१०.१२।।
(सु.) एतदेव स्पष्टयति-पडिमं 'इति, प्रतिमां - मासादिरूपां प्रतिपद्य सविधिमङ्गीकृत्य, स्मशाने-पितृवने, न बिभेति न भयं याति भैरवभयानि दृष्ट्वा - रौद्रभयहेतूनुपलभ्य वैतालिकादिरूपशब्दादि, विविधगुणतपोरतश्च नित्यं - मूलगुणाद्यनशनादिसक्तश्च सर्वकालं, न शरीरमभिकाङ्क्षते निःस्पृहतया वार्त्तमानिकं भावि च य इत्थंभूतः स भिक्षुरिति ।।१०.१२।।
असइं वोसट्टचत्तदेहे, अकुट्टे व हए व लूसिए वा ।
पुढविसमे मुणी हविज्जा, अनियाणे अकोउहल्ले जे, स भिक्खू ।। १०.१३ ।।
१. 'दिअस्स' इत्यन्यत्र मु. पाठः । २. ०रए य निच्चं अन्यत्र चूर्णौ च विवृतं टीकात्रिकेत्र तपोरतश्च' इति । ३. 'अक्कुट्ठे' इति पाठोन्यत्र चूर्णौ च, टीकात्रिके च' आक्रुष्ट 'इति विवृतः ।