________________
३४४
दशवैकालिकं-टीकात्रिकयुतम् (ति.) किञ्च-असकृत्-सर्वदा । व्युत्सृष्टत्यक्तदेह-व्युत्सृष्टः-प्रतिबन्धाभावेन, त्यक्तः तद्विभूषाद्यकरणेन देहो येन स तथा । आक्रुष्टो वा-दुर्वचनैः । हतो वायष्टयादिना। लूषितो वा-तस्कराद्यैरुपध्यपहरणेन, श्व-शृगाल-व्याधैः शरीरापहारेण । पृथ्वीसमः-सर्वंसहो मुनिर्भवति । अनिदानः-भाविफलाशंसारहितः । अकुतूहल:नटाद्यालोकनादिषु। यः स भिक्षुः ।।१०.१३।।
(स.) पुनराह-असई 'इति-यो मुनिः पृथिवीसमो भवेत्, पृथिवीतत् सर्वंसह, स्यात्, न पुना रागादिना पीड्यते, किम्भूतो मुनिः ? असकृद्ध्युत्सृष्टत्यक्तदेहः, असकृत्सर्वदा व्युत्सृष्टो भावप्रतिबन्धाभावेन त्यक्तो वि भूषाया अकरणेन देहः शरीरं येन स तथाविधः, पुनराक्रुष्टो वा जकारादिना, हतो वा दण्डादिना, लूषितो वा खड़गादिना, भक्षितो वा शृगालादिना. किम्भूतो मुनिः ? अनिदानो भाविफलस्य वाञ्छारहितः. पुनरकुतूहलश्च नटादिषु य एवम्भूतः स भिक्षुः. ।।१०.१३।।
(सु.) असइं...'इति, न सकृदसकृत् सर्वदैवेत्यर्थः, किमित्याह-व्युत्सृष्टत्यक्तदेहःव्युत्सृष्टो भावप्रतिबन्धाभावेन, त्यक्तो-विभूषाकरणेन, देहः-शरीरं येन स तथाविधः, आक्रुष्टो वा ज(य)कारादिना, हतो वा दण्डादिना, लूषितो वा खड़गादिना, भक्षितो वा शृगालादिना, पृथिवीसमः-सर्वंसहो मुनिर्भवति, न च रागादिना पीड्यते, तथाऽनिदानोभाविफलाऽऽशंसारहितः, अकुतूहलश्च नटादिषु, य एवंभूतः, स भिक्षुरिति ।।१०.१३ ।।
अभिभूय काएण परीसहाई, समुद्धरे जाइपहाउ अप्पयं । विइत्तु जाईमरणं महाभयं, तवे रए सामणिए जे, स भिक्खू ।।१०.१४।।
(ति.) तथा-अभिभूय-पराजित्य, अधिसह्य । परीषहान्-क्षुधादीन् । कायेन-न मनो-वाग्भ्यामेव। समुद्धरति-उत्तारयति । आत्मानम् । जातिपथात्-संसारमार्गात् । विदित्वा । जातिमरणं महाभयम् । तपसि रतः । श्रामण्ये-श्रमणसम्बन्धिनि । यः स भिक्षुः ।।१०.१४।।
(स.) भिक्षुस्वरूपाभिधानाधिकार एवाह-अभिभूअ 'इति-यो मुंनिः कायेन शरीरेण न मनो-वचनाभ्यामेव, सिद्धान्तनीत्या परीषहानभिभूय पराजित्याऽऽत्मानं जातिपथात्
१. महम्मयं इत्यन्त्र मुद्रितः पाठः |