________________
दशमम् अध्ययनम्
३४५ संसारमार्गात् समुद्धरत्युत्तारयति, किं कृत्वा? जाति-मरणं संसारमूलं विदित्वा, किम्भूतं जाति-मरणं? महाभयं महाभयकारणं, किम्भूतो मुनिः ? तपसि रतः, तपःकरणतत्परः, किम्भूते तपसि ? श्रामण्ये श्रमणानां सम्बन्धिनि शुद्धे, स भिक्षुः. ।।१०.१४ ।। __(सु.) भिक्षुस्वरूपाभिधानाधिकार एवाह-अभिभूय...इति अभिभूय-पराजित्य, कायेनशरीरेणापि न, भिक्षुसिद्धान्तनीत्या मनोवाग्भ्यामेव, कायेनानभिभवे तत्त्वतस्तदनभिभवात्, परीषहान-क्षुदादीन, समुद्धारयत्युत्तारयति, जातिपथात्-संसारमार्गादात्मानं, कथम?इत्याह-विदित्वा-विज्ञाय, जातिमरणं-संसारमूलं, महाभयं-महाभयकारणं, ततः-तपसि रतः-सक्तः, किंभूतः ? इत्याह-श्रामण्ये-श्रमणानां सम्बन्धिनि, शुद्ध इति भावः, य एवंभूतः, स भिक्षुरिति ।।१०.१४।।
हत्थसंजए पायसंजए, वायसंजए संजइंदिए । अज्झप्परए सुसमाहियप्पा, सुत्तत्थं च वियाणई जे, स भिक्खू ।।१०.१५।।
(ति.) तथा हस्तसंयतः, पादसंयतः, वाक्संयतः-कारणं विना कूर्मवल्लीनः । संयतेन्द्रियः-निर्विष(यी)कृतेन्द्रियव्यापारः । अध्यात्मरतः-प्रशस्तध्यानसक्तः । सुसमाहितात्मा। सूत्रार्थं च विजानाति यः, स भिक्षुः ।।१०.१५।।
(स.) पुनराह-हत्थ'इति-यः साधुर्हस्तसंयतः पादसंयतः इति कारणं विना कूर्मवल्लीन आस्ते, कारणे च सम्यग् गच्छति, तथा यो वाक्संयतोऽकुशलवचननिरोधात्, कुशलवचनस्य चोदीरणेन, किम्भूतः साधुः ? संयतेन्द्रियो निवृत्तविषयप्रसरः, पुनः किम्भूतः साधुः ? अध्यात्मरतः प्रशस्तध्यानासक्तः, पुनः किम्भूतः साधुः ? सुसमाहितात्मा, ध्यानाऽऽपादकगुणेषु सुतरां स्थापितात्मा, पुनर्यः सूत्रा-ऽर्थं यथावस्थितं विधिग्रहणशुद्धं विजानाति, एवम्भूतः स भिक्षुः. ।।१०.१५।।
(सु.) हत्थ...इति, हस्तसंयतः पादसंयत इति, कारणं विना कूर्मवल्लीन आस्ते, कारणे च सम्यग् गच्छति, तथा वाक्संयतः-अकुशलवाग् निरोधात् कुशलवागुदीरणेन संयतेन्द्रियो-निवृत्तविषयप्रसरः, अध्यात्मरतः-प्रशस्तध्यानासक्तः, सुसमाहितात्मा ध्यानाऽऽपादकगुणेषु, तथा सूत्रार्थं च यथावस्थितं विधिग्रहणशुद्धं विजानाति यः सम्यग् यथाविषयं स भिक्षुरिति ।।१०.१५।।