________________
दशवैकालिकं-टीकात्रिकयुतम्
३४२
इति गम्यम् । स भिक्षुः । ।१०.१० ।।
(स.) अथ भिक्षुलक्षणाधिकार एवाह - न य ' इति यः साधुर्वैग्रहिकीं कलहप्रतिबद्धां कथां न कथयति, पुनर्यः सद्वादकथादिष्वपि न कुप्यति परस्य, अपि तु यो निभृतेन्द्रियःअनुद्धतेन्द्रियो भवेत्, पुनर्यः प्रशान्तो रागादिरहित एवास्ते, तथा संयमे पूर्वोक्तस्वरूपे, ध्रुवं सर्वकालं योगेन काय - वाङ् - मनःकर्मलक्षणेन युक्तः प्रतिभेदमौचित्येन प्रवृत्तः, तथा य उपशान्तः, अनाकुलः कायचापलादिरहितः, पुनर्योऽविहेठको न क्वचिदुचितेऽनादरवान्, न क्रोधादीनां विश्लेषक इत्यन्ये, इत्थम्भूतः स भिक्षुः । ।१०.१० ।।
(सु.) भिक्षुलक्षणाधिकार एवाह - न य... 'इति, न च वैग्रहिकीं - कलहप्रतिबद्धां कथां कथयति, सद्वादकथादिष्वपि न च कुप्यति परस्यापि तु निभृतेन्द्रियोऽनुद्धतेन्द्रियः प्रशान्तो-रागादिरहित एवास्ते, तथा संयमे - पूर्वोक्ते, ध्रुवं सर्वकालं, योगेन-काय-वाड्मनःकर्मलक्षणेन युक्तः-योगयुक्तः, प्रतिभेदमौचित्येन प्रवृत्तेः तथोपशान्तोऽनाकुलः कायचापलादिरहितः, अविहेठकः न क्वचिदुचितेऽनादरवान् क्रोधादीनां विश्लेषक इत्यन्ये, य इत्थंभूतः, स भिक्षुरिति ।।८.१० ।।
जो सहइ हु गामकंटए, अक्कोस-पहार तज्जणाओ य । भय-भैरव-सद्दसप्पहासे, समसुह- दुक्खसहे य जे, स भिक्खू ।।१०.११।।
( ति . ) किञ्च - यः खलु सहते । ग्रामाः - इन्द्रियाणि तेषां दुःखहेतवः कण्टकाः, तान् । आक्रोशान्, प्रहारान्, तर्जनाश्च 'प्रदेशिन्याः परिभ्रमणम् । भैरवभयाः- अत्यन्तरौद्राः, शब्दाः सप्रहासाश्च यस्मिन्, तत्र भय - भैरव - शब्द - सप्रहासे स्थाने - वेतालादिकृतार्तनादाट्टहासे । एषूपसर्गेषु सत्स्वपि समसुखदुःखः सहश्च यः - अचलितसामयिकभावः । स भिक्षुः ।।१०.११ ।।
(स.) जो इति- किञ्च यः साधुः सम्यग् ग्रामकण्टकान् सहते, ग्रामा इन्द्रियाणि, तेषां दुःखहेतवः कण्टकास्तान्, स्वरूपत एवाह - आक्रोशान् प्रहारांस्तर्जनांश्चेति, तत्र आक्रोशा जकारादिभिः प्रहाराः कशादिभिः, तर्जना असूयादिभिः, तथा भैरवभया अत्यन्तरौद्रभयजनकाः शब्दाः सप्रहासा यस्मिन्, स्थान इति गम्यते, तथा तस्मिन्, वेतालादिकृता-ऽऽर्त्तनादा-ऽट्टहास इत्यर्थः, अत्रोपसर्गेषु सत्सु समसुख - दुःखसहश्च
१. तर्जन्याः ।