________________
दशमम् अध्ययनम्
३४१ (सु.) तहेव असणं इति, तथैवेति पूर्वर्षिविधानेनाशनं पानं च प्रागुक्तस्वरूपं तथा विविधमनेकप्रकारं खाद्यं स्वाद्यं च प्रागुक्तस्वरूपमेव लब्ध्वा-प्राप्य, किम् ? इत्याह भविष्यत्यर्थः-प्रयोजनमनेन श्वः परश्वो वेति तद्-अशनादि न निधत्ते-न स्थापयति स्वयं, तथा न निधापयति-न स्थापयत्यन्यैः, स्थापयन्तमन्यं नानुजानाति, यः सर्वथा संनिधिपरित्यागवान् स भिक्षुरिति ।।१०.८।।
तहेव असणं पाणगं वा, विविहं खाइम साइमं लभित्ता | छंदिय साहम्मियाइं भुंजे, भुच्चा सज्झायरए य जे, स भिक्खू ||१०.९।। (ति.) तथैव पूर्वार्धं प्राग्वत् । छन्दयित्वा-निमन्त्र्य | साधर्मिकान्-साधून् भुङ्क्ते । भुक्त्वा स्वाध्यायरतश्च यः, स भिक्षुः ।।१०.९।।।
(स.) तहेव...इति-किञ्च तथैव यः साधुरशनं पानं च विविधं खाद्यं स्वाद्यञ्च लब्ध्वेत्यादि व्याख्या पूर्ववत्. लब्ध्वा किम् ? इत्याह-छन्दित्वा निमन्त्र्य समानधार्मिकान्, भुङ्क्ते स्वात्मतुल्यत्वाद् वासल्यसिद्धेः, भुक्त्वा च स्वाध्यायरतश्च भवेत्, चशब्दाच्छेषानुष्ठानपरश्च स्यात्, स भिक्षुः. ।।१०.९।।
(सु.) किञ्च-तहेव...इति, तथैवाशनं पानं च विविधं खाद्यं स्वाद्यं च लब्ध्वेति पूर्ववत्, लब्ध्वा किम् ?-इत्याह छन्दित्वा-निमन्त्र्य, समानधार्मिकान्-साधून्, भुङ्क्ते, स्वात्मतुल्यत्वाद् वासल्यसिद्धेः, तथा भुक्त्वा स्वाध्यायरतश्च यः, चशब्दो विशेषानुष्ठानपरश्च यः, स भिक्षुरिति ।।१०.९।। भिक्षुलक्षणाधिकार एवाह
न य वुग्गहियं कहं कहिज्जा, न य कुप्पे निहुइंदिए पसंते । संजमधुवजोगजुत्ते, उवसंते अविहेढए य जे, स भिक्खू ।।१०.१०।।
(ति.) भिक्षुलक्षणाधिकारे एवमाह - न च वैग्रहिकीम्-कलहप्रतिबद्धाम् । कथां कथयति । न च कुप्यति परस्मै। अस्ति तु निवृत्तेन्द्रियः-अनुद्धतेन्द्रियः । प्रशान्तःरागादिरहित एवास्ते । संयमे, ध्रुवयोगा ये प्रतिलेखनप्रमार्जनादयः तैः युक्तः । उपशान्तः-अनाकुलः | अविहेडकः-हेट्टहोट्टअनादरे, न विहेडकः, नानादरवान् साध्वाचारे १....म्मिआणं'-चूर्णी, अन्यत्र च मूलतः पाठः । २. (सु.) संजमे धुवं जोगेण जुत्ते' इति पाठो मूलतः । ३. उवहेडए इति (स) टीकायां, अविहेडए'इति (सु) टीकायाश्च मूलपाठः, विवृतश्च (ति) टीकायां-'अविहेडकः इति, अन्यत्र तु'अविहेठकः'। ३. हेड्ड-होड्ड अनादरे [पाणि.धा.पा. २८४-२८५], हेड्र-होड्र अनादरे [कातन्त्रधा.पा. (३७४)]