________________
दशवैकालिकं-टीकात्रिकयुतम्
(ति.) सम्यग्दृष्टिः सदा । अमूढः अव्यामोहवान्, नास्तिकादिभिरविप्रतारितः । अस्ति ज्ञानम्-अतीन्द्रियविषयमपि । अस्ति तपः- सबाह्याभ्यन्तरम् । अस्ति संयमःनवकर्मानुपादानरूपः । इत्थं दृढभावः तपसा धुनाति पुराणपापकम् । मनो-वाक्कायसंवृतः-संवृता मनो - वाक्- कायवृत्तिः, यः स भिक्षुः ।। १०.७ । ।
३४०
(स.) पुनराह—सम्मद्दिट्ठी...इति यः साधुः सम्यग्दृष्टिर्भावसम्यग्दर्शनी, पुनः सदा अमूढः सदाविप्लुतः सन्नेवं मन्यते अस्त्येव ज्ञानं हेयोपादेयविषयमतीन्द्रियेष्वपि तथा तपश्चास्त्येव बाह्याभ्यन्तरकर्ममलापनयने पानीयसदृशं तथा संयमश्च नवकर्मानुपादानरूपः. इत्थं च दृढभावो यस्तपसा धुनोति पुराणं पापं भावसारया प्रवृत्त्या, पुनर्यो मनोवचनकायेषु संवृतः, कोऽर्थः ? तिसृभिर्गुप्तिभिर्गुप्तः, स भिक्षुः ।।१०.७।।
(सु.) तथा सम्मद्दिट्ठी...इति, सम्यग्दृष्टिः- भावसम्यग्दर्शनी, यः सदाऽमूढःअविप्लुतः सन्नेवं मन्यते, 'अस्त्येव ज्ञानं हेयोपादेयविषयमतीन्द्रियेष्वपि तपश्च बाह्याभ्यन्तरकर्म्म-मलापनयनजलकल्पं, संयमश्च नवकर्म्मानुपादानरूपः इत्थं च दृढभावस्तपसा धुनोति पुराणं पापं भावसारतया प्रवृत्त्या, मनो- वाक्- कायसुसंवृतःतिसृभिर्गुप्तिभिर्गुप्तो यः, स भिक्षुरिति ।।१०.७।।
तहेव असणं पाणगं वा, विविहं खाइम साइमं लभित्ता । होही अट्टे सुए परे वा, तं निहे न निहवएस भिक्खू ||१०.८ ।।
(ति.) किञ्च - तथैव - पूर्वमुनिवत् । अशनं पानकं वा विविधं खाद्यं स्वाद्यं वा लब्ध्वा । भविष्यति । अर्थः-प्रयोजनम् । स्वः परस्वो वा । तद्-अशनादि । न निधत्ते । न निधापयति । न निदधानमप्यन्यमनुजानाति । एवं सन्निधित्यागवान्, यः स भिक्षुः ।।
(स.) तहे...इति-किञ्च तथैव पूर्वसाधुवत्, अशनं पानक च पूर्वोक्तस्वरूपं, तथा विविधमनेकप्रकारं खाद्यं स्वाद्यं च पूर्वोक्तस्वरूपमेव लब्ध्वा प्राप्य किम् ? इत्याहभविष्यत्यर्थः प्रयोजनमनेनति श्वः परश्वो वेति तदशनादि न निधत्ते, न स्थापयति स्वयं, तथा न निधापयति न स्थापयत्यन्यैः, तथा स्थापयन्तमन्यं नानुजानाति यः सर्वथा सन्निधिपरित्यागवान् स भिक्षुः ।।१०.८ ।।
१. 'वा' इति मूलपाठः, विवृतश्च तथैवान्यत्र मुद्रिते . ग्रन्थे चूर्णौ च, ति- टीकायामपि 'वा' एव विवृत्तः २. 'निहावए जे सइत्यपि मुद्रितमन्यत्र, निदाघपयति'इति विवृतमपि ।