________________
दशमम् अध्ययनम्
३३९ विधिग्रहणाऽऽसेवनाभ्यां प्रियं कृत्वा, पुनर्यः पञ्चापि महाव्रतानि स्पृशति सेवते, पुनर्यः पञ्चाश्रवसंवृतो भवेत्, स भिक्षुः. ||१०.५।। . (सु.) रोइ...इति, रोचयित्वा-विधिग्रहण-भावनाभ्यां प्रियं कृत्वा, किं तत् ?, इत्याह-ज्ञातपुत्रवचनं भगवन्महावीरवचनं, आत्मसमान्-आत्मतुल्यान् मन्यते षडपि कायान-पृथिव्यादीन्, पञ्च चेति चशब्दोऽपिशब्दार्थः, पञ्चापि स्पृशति-सेवते महाव्रतानि, पञ्चाश्रवसंवृतश्च द्रव्यतोऽपि पञ्चेन्द्रियसंवृतश्च, यः स भिक्षुरिति ।।१०.६ ।।
चत्तारि वमे सया कसाए, धुवजोगी य हविज्ज बुद्धवयणे । अहणे निज्जायरूयरयए, गिहिजोगं परिवज्जए स भिक्खू ।।१०.६।। (ति.) किञ्च-चतुरः कषायान् वमति सदा । ध्रुवयोगी-सतताभ्यासी भवति । बुद्धवचने-जिनमते । अधनः-चतुःपदादिरहितः । निर्जातरूप-रजतः-निर्गतसुवर्णरौप्यः। गृहियोगम्-गृहस्थसम्पर्कम् । परिः-सर्वथा वर्जयति यः, स भिक्षुः ।।१०.६ ।।
तथा -
(स.) चत्तारि 'इति-किञ्च यः साधुश्चतुरः क्रोधादीन् कषायान्, सदा सर्वकालं, वमति त्यजति, पुनर्यो ध्रुवयोगी भवति, उचितनित्ययोगवान् स्यात्, केन ? बुद्धवचनेन तीर्थकरवचनेन करणभूतेन, तृतीयार्थे सप्तम्यत्र, किम्भूतः साधुः ? अधनः-चतुष्पदादिरहितः, पुनः किम्भूतः साधुः ? निर्जातरूप-रजतः, निर्गतस्वर्ण-रूप्य इति भावः, पुनर्यो गृहियोगं मूर्छया गृहस्थसम्बन्धं परिवर्जयति, सर्वैः प्रकारैः परित्यजति यः, स भिक्षुः. ||१०.६।।
(सु.) किञ्च-चत्तारि 'इति, चतुरः क्रोधादीन् वमति तत्प्रतिपक्षाभ्यासेन, सदासर्वकालं कषायान्, ध्रुवयोगी चोचितनित्ययोगवांश्च भवति, बुद्धवचन इति तृतीयार्थे सप्तमी, तीर्थकरवचनेन करणभूतेन, ध्रुवयोगी भवति, यथागममेवेति भावः, अधनश्चतुष्पदादिरहितो निर्जातरूपरजतो-निर्गतसुवर्णरूप्य इति भावः, गृहियोगं-मूर्च्छया गृहस्थसम्बन्धं परिवर्जयति सर्वैः प्रकारैः परित्यजति यः स भिक्षुरिति ।।४६६ ।। तथा
सम्मट्ठिी सया अमूढे, अत्थि, हु नाणे तवे य संयमे य ।
तवसा धुणइ पुराणपावगं, मण-वय-कायसु संवुडे य जे, स भिक्खू ।।१०.७।। १. 'अत्र सु-टीकासंवलिते प्रतौ । निज्जायरूवरयणे इति पाठः मूल रूपेण मुद्रितः | २. तवे संजमे य'इत्यत्र मुद्रितः पाठभेदः ।
२३