________________
३३८
दशवैकालिकं-टीकात्रिकयुतम् वहणं तस-थावराण होइ, पुढवि-दग-कट्ठनिसियाणं । तम्हा उद्देसियं न भुंजे, नो वि पए न पयावए, स भिक्खू ।।१०.४।।
(ति.) औद्देशिकादिपरिहारेण त्रसस्थावरपरिहारमाह- वधनम्-हननम् । त्रसस्थावराणाम्-द्वीन्द्रियादिपृथ्व्यादीनां भवति । तथा पृथिवी-दक-काष्ठनिसृतानाम्आश्रितानाम् । द्वादशविधौद्देशिकारम्भे सति तस्मादौदेशिकं न भुङ्क्ते । तथा न पचति । न पाचयति । पचन्तमपि नान्यमनुजानाति । अनेन न हन्ति, न घातयति, नान्यं घ्नन्तमनुजानाति । न क्रीणाति, न क्रापयति, न क्रीणन्तमनुजानाति । एता नवकोट्यः । एतद् विशुद्ध पिण्डादि गृह्णाति यः, स भिक्षुः ।।१०.४।।
(स.) अथौद्देशिकादिपरिहारेण त्रसस्थावरपरिहारमाह-वहणं 'इति-यस्मात् कृतौद्देशिकादौ त्रस-स्थावराणां, त्रसानां द्वीन्द्रियादीनां, स्थावराणां च पृथिव्यादीनां जीवानां, वधनं हननं भवति, किंविशिष्टानां त्रस-स्थावराणां? पृथिवी-तृणकाष्ठनिःसृतानां, तथा समारम्भात्, यस्मादेवं तस्मात् कारणादौद्देशकं कृतादि, अन्यच्च सावधं यो न भुङ्क्ते, न केवलमेत् किन्तु यः स्वयं न पचति, नाप्यन्यैः पाचयति, नाप्यन्यं पाचयन्तं समनुजानाति, स भिक्षुः ।।१०.४।।।
(सु.) औद्देशिकादिपरिहारेण त्रसस्थावरपरिहारमाह-वहणं 'इति, वधनं-हननं त्रस-स्थावराणां-द्वीन्द्रियादि-पृथिव्यादीनां भवति कृतौद्देशिके, किंविशिष्टानां ?पृथिवी-तृण-काष्ठनिश्रितानां तथासमारम्भात्, यस्मादेवं तस्मादौदेशिकं कृतादि, अन्यच्च सावधं न भुङ्क्ते, न केवलं एतत्, किन्तु नापि पचति स्वयं, न पाचयत्यन्यैः, न पचन्तमनुजानाति यः, स भिक्षुरिति ।।१०.४।।
रोइय नायपुत्तवयणे 'अप्पसमे मन्निज्ज छप्पि काए । पंच य फासे महव्वयाई, पंचासवसंवरए य जे, स भिक्खू ।।१०.५।।
(ति.) किञ्च-रोचयित्वा-रुचिं नीत्वा । ज्ञातपुत्रवचनम-श्रीमहावीरवचः । आत्मसमान्। षडपि कायान्-जीवनिकायान्, पृथिव्यादीन् । मन्यते । पंच च स्पृशति महाव्रतानि | पंचाश्रवसंवृतश्च-कृतपञ्चेन्द्रियसंवरणः यः, स भिक्षुः ||१०.५।।
(स.) रोइय इति-यः साधुः षडपि पृथिव्यादिजीवनिकायान्, आत्मसमान् मन्यते, किं कृत्वा ? ज्ञातपुत्रवचनं रोचयित्वा, ज्ञातपुत्रो महावीरदेवः, तस्य वचनं 1. अन्यत्र' अत्तसमे' इति मुद्रितम् ।