Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 343
________________ दशवैकालिकं- टीकात्रिकयुतम् ३२८ इत्यादि साधुर्हितानुशासनं प्रार्थयत इच्छति, पुनराचार्यादिभ्य इहलोक - परलोकयोरुपकारिणमुपदेशं शुश्रूषति धातूनामनेकार्थत्वात् यथा-विषयमव- बुद्ध्यते तच्चावबुद्धः सन् पुनरधितिष्ठति यथावत् करोति, न च कुर्वन्नपि मानमदेन गर्वमदेन माद्यति मदं याति, विनयसमाधौ विनयसमाधिविषये, किंभूतः साधुः ? आयतार्थिको मोक्षार्थी इति. उक्तो विनयसमाधिः ।।९.४.२।। (सु.) विनयसमाधिमभिधित्सुराह - चउव्विहा... इत्यादि, चतुर्विधः खलु विनयसमाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः, अणुसासिज्जंतो इत्यादि, अनुशास्यमानस्तत्र तत्र चोद्यमानः शुश्रूषति- तदनुशासनमर्थितया श्रोतुमिच्छति १ । इच्छाप्रवृत्तितः तत् सम्यक् सम्प्रतिपद्यते, सम्यग् - अविपरीतमनुशासनतत्त्वं यथाविषयमवबुध्यते २ । स चैवं विशिष्टप्रतिपत्तेरेव वेदमाराधयति, वेद्यते अनेनेति वेदः श्रुतज्ञानं तद्यथोक्तानुष्ठानपरतया सफलीकरोति ३ । अत एव विशुद्धप्रवृत्तेर्न च भवत्यात्मसंप्रगृहीतः - आत्मा एवं सम्यक् प्रकर्षेण गृहीतो येनाहं विनीतः सुसाधुरित्येवमादिना स तथा, अनात्मोत्कर्षप्रधानत्वाद् विनयादेः, न चैवंभूतो भवतीति अभिप्रायः । चतुर्थं पदं भवतीत्येतदेव सूत्रक्रमप्रामाण्यादुत्तरोत्तरगुणापेक्षया चतुर्थमिति ४ ।। सूत्रम् ९.४.३ ।। भवति चात्र श्लोकः, अत्रेति विनयसमाधौ श्लोकः - छन्दोविशेषः । स चायं - पेहे...इति प्रार्थयते हितानुशासनं - इच्छति इहलोक-परलोकोपकारिण-माचार्यादिभ्य उपदेशं, शुश्रूषतीत्यनेकार्थत्वात् यथाविषयमवबुध्यते तच्चावबुद्धं सत् पुनरधितिष्ठति यथावत् करोति, न च कुर्व्वन्नपि मानमदेन- मानगर्वेण माद्यति-मदं याति विनयससमाधौ - विनयसमाधिविषये आयतार्थिकः - मोक्षार्थीति । उक्तो विनय-समाधिः ।।९.४.२ ।। चउव्विहा खलु सुयसमाही भवइ, तं जहा सुयं मे भविस्सइ त्ति अज्झाइयव्वं भवइ, एगग्गचित्तो भविस्सामि त्ति अज्झाइयव्वं भवइ, अप्पाणं ठावइस्सामि त्ति अज्झाइयव्वं भवइ, ठिओ परं ठावइस्सामि त्ति अज्झाइयव्वं भवइ । चउत्थं पयं भवइ । भवइ य इत्थ सिलोगो ।।९.४.४।। (ति) श्रुतसमाधिमाह चतुर्विधः खलु श्रुतसमाधिर्भवति । तद् यथा- श्रुतं मेआचारादिद्वादशाङ्गम् । भविष्यतीत्यध्येतव्यं भवति । तथा अध्ययनं कुर्वन्नेकाग्रचित्तो भविष्यामि न विप्लुतचित्त इत्यध्येतव्यं भवति । एकाग्रचित्तश्चाध्ययनं कुर्वन् आत्मानं विशुद्धधर्मे स्थापयिष्यामीत्यध्येतव्यं भवति । तथाध्ययनफलात् स्थितः स्वयं विशुद्धधर्मे परं विनेयं स्थापयिष्यामीत्यध्येतव्यं भवति । इदं च क्रमप्राप्तं चतुर्थं पदं भवति ।

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416