Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 354
________________ दशमम् अध्ययनम् ३३९ विधिग्रहणाऽऽसेवनाभ्यां प्रियं कृत्वा, पुनर्यः पञ्चापि महाव्रतानि स्पृशति सेवते, पुनर्यः पञ्चाश्रवसंवृतो भवेत्, स भिक्षुः. ||१०.५।। . (सु.) रोइ...इति, रोचयित्वा-विधिग्रहण-भावनाभ्यां प्रियं कृत्वा, किं तत् ?, इत्याह-ज्ञातपुत्रवचनं भगवन्महावीरवचनं, आत्मसमान्-आत्मतुल्यान् मन्यते षडपि कायान-पृथिव्यादीन्, पञ्च चेति चशब्दोऽपिशब्दार्थः, पञ्चापि स्पृशति-सेवते महाव्रतानि, पञ्चाश्रवसंवृतश्च द्रव्यतोऽपि पञ्चेन्द्रियसंवृतश्च, यः स भिक्षुरिति ।।१०.६ ।। चत्तारि वमे सया कसाए, धुवजोगी य हविज्ज बुद्धवयणे । अहणे निज्जायरूयरयए, गिहिजोगं परिवज्जए स भिक्खू ।।१०.६।। (ति.) किञ्च-चतुरः कषायान् वमति सदा । ध्रुवयोगी-सतताभ्यासी भवति । बुद्धवचने-जिनमते । अधनः-चतुःपदादिरहितः । निर्जातरूप-रजतः-निर्गतसुवर्णरौप्यः। गृहियोगम्-गृहस्थसम्पर्कम् । परिः-सर्वथा वर्जयति यः, स भिक्षुः ।।१०.६ ।। तथा - (स.) चत्तारि 'इति-किञ्च यः साधुश्चतुरः क्रोधादीन् कषायान्, सदा सर्वकालं, वमति त्यजति, पुनर्यो ध्रुवयोगी भवति, उचितनित्ययोगवान् स्यात्, केन ? बुद्धवचनेन तीर्थकरवचनेन करणभूतेन, तृतीयार्थे सप्तम्यत्र, किम्भूतः साधुः ? अधनः-चतुष्पदादिरहितः, पुनः किम्भूतः साधुः ? निर्जातरूप-रजतः, निर्गतस्वर्ण-रूप्य इति भावः, पुनर्यो गृहियोगं मूर्छया गृहस्थसम्बन्धं परिवर्जयति, सर्वैः प्रकारैः परित्यजति यः, स भिक्षुः. ||१०.६।। (सु.) किञ्च-चत्तारि 'इति, चतुरः क्रोधादीन् वमति तत्प्रतिपक्षाभ्यासेन, सदासर्वकालं कषायान्, ध्रुवयोगी चोचितनित्ययोगवांश्च भवति, बुद्धवचन इति तृतीयार्थे सप्तमी, तीर्थकरवचनेन करणभूतेन, ध्रुवयोगी भवति, यथागममेवेति भावः, अधनश्चतुष्पदादिरहितो निर्जातरूपरजतो-निर्गतसुवर्णरूप्य इति भावः, गृहियोगं-मूर्च्छया गृहस्थसम्बन्धं परिवर्जयति सर्वैः प्रकारैः परित्यजति यः स भिक्षुरिति ।।४६६ ।। तथा सम्मट्ठिी सया अमूढे, अत्थि, हु नाणे तवे य संयमे य । तवसा धुणइ पुराणपावगं, मण-वय-कायसु संवुडे य जे, स भिक्खू ।।१०.७।। १. 'अत्र सु-टीकासंवलिते प्रतौ । निज्जायरूवरयणे इति पाठः मूल रूपेण मुद्रितः | २. तवे संजमे य'इत्यत्र मुद्रितः पाठभेदः । २३

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416