________________
३३७
दशमम् अध्ययनम् सभिक्षुनामाध्ययनेऽपि स एवार्थः प्ररूप्यते ? पुनरुक्तिदोषप्रसङ्गो जायते. अत्रोत्तरमाहषड्जीवनिकायपालनापर एव भिक्षुरुच्यते, नान्य इति ज्ञापनार्थं, ततो न दोषः ।।१०.२।।
(सु.) तथा-पुढविं'इति, पृथ्वी-सचेतनादिरूपां न खनति स्वयं, न खानयति परैः, "एकग्रहणे तज्जातीयग्रहणम्" इति खनन्तमप्यन्यं नानुजानातीति, एवं सर्वत्र वेदितव्यं, शीतोदकं-सचित्तं पानीयं न पिबति स्वयं, न पाययति परान्, अग्निः षड्जीवघातकः, किंवद् ?-इत्याह-शस्त्रं-खड्गादि यथा सुनिशितमुज्ज्वालितं तद्वत्, तं न ज्वालयति स्वयं, न ज्वालयति परैः, य इत्थंभूतः स भिक्षुरिति, आहषड्जीवनिकायादिषु सर्वाध्ययनेष्वयमर्थोऽभिहितः किमर्थं पुनरुक्त इति ?, उच्यते, तदुक्तार्थानुष्ठानपर एव भिक्षुरिति ज्ञापनार्थं, ततश्च न दोष इति ।।४६२।।
अनिलेण न विए न वियावए, हरियाणि न छिंदे न छिंदावए | बीयाणि सया विवज्जयंतो, सचित्तं नाहारए स भिक्खू ।।१०.३।।
(ति.) तथा अनिलेन हेतुना-अनिलनिमित्तं, तालवृन्तादि । स्वयं न वीजयति । न परैः वीजयति । नान्यं वीजयन्तमनुजानाति । न हरितानि छिनत्ति स्वयम् । न परैः छेदयति । नाप्यन्यं छिन्दानमनुजानाति । बीजानि सदा विवर्जयेत्-सङ्घट्टनादिक्रियया। सच्चित्तं नाहारयति यः कदाप्यपुष्टालम्बनः, स भिक्षुः ।।१०.३।।
(स.) अनिलेण 'इति-तथा योऽनिलेन वायुना वायुहेतुना चेलकर्णादिनात्मादि न स्वयं वीजयति, नापि परैर्वीजयति, तथा हरितानि बालतृणादीनि यः स्वयं न छिनत्ति, न च परैश्छेदयति तथा यो बीजानि हरितफलरूपाणि व्रीह्यादीनि, सदा सर्वकालं विवर्जयेत् सङ्घट्टनादिक्रियया, तथा यः सचित्तं नाहारयति कदाचिदपि सबले कारणेऽपि, स भिक्षुः ||१०.३।। __ (सु.) अनिले...इति-अनिलेनानिलहेतुना चेलकर्णादिना न वीजयत्यात्मादि स्वयं, न वीजयति परैः, हरितानि-शष्पादीनि, न छिनत्ति स्वयं, न छेदयति परैः, बीजानिहरितफलरूपाणि व्रीह्यादीनि सदा-सर्वकालं विवर्जयेत् संघट्टनादिक्रियया, सचित्तं नाहारयति यः कदाचित् अप्यपुष्टालम्बनः स भिक्षुरिति ।।१०.३।। १. न वीए, न वीयावए' इत्यन्यत्र मुद्रितः पाठभेदः |
-