Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 348
________________ ३३३ नवमम् अध्ययनम् __ (ति.) सर्वसमाधि-फलमाह-अभिगम्य-विज्ञायासेव्यः । चतुरः समाधीन्अनन्तरोक्तान् । सुविशुद्धः-मनो-वाक्-कायैः । सुसमाहितात्मकः-संयमे । विपुलंविस्तीर्णं, हितं-वर्तमानानागतकलयोः पथ्यं, सुखं, आवहति प्रापयति, यत्, तद् विपुलहितसुखावहम् । पुनः । पदम्-स्थानम् । क्षेमम्-शिवम् । करोति आत्मनः सः साधुः ।।९.४.६ ।। (स.) सर्बसमाधि-फलमाह-अभिगमे(म्म) इति-असौ साधुरात्मन एव न त्वन्यस्य पदं स्थानं क्षेमं शिवं करोति, किं कृत्वा ? चतुरः समाधीनभिगम्य सम्यग् विज्ञाय, किम्भूतः साधुः ? सुविशुद्धो मनो-वाक्-कायेन, पुनः सुसमाहितात्मा सप्तदशविधे संयमे, स एवंभूतः, किम्भूतं पदं ? विपुलहितसुखावहं विपुलं विस्तीर्णं हितं तदात्व आयतौ च पथ्यं सुखमावहति प्रापयति यत् तत् तथा. ।।९.४.६ ।। (सु.) सर्वसमाधि फलमाह-अभिगम(म्म) इति, अभिगम्य-विज्ञायासेव्य च चतुरः समाधीननन्तरोदितान्, सुविशुद्धो मनो-वाक्-कायैः, सुसमाहितात्मा सप्तदशविधे संयमे, स एवंभूतो धर्मराज्यमासाद्य विपुलहितसुखावहं, पुनरिति विपुलं-विस्तीर्ण हितं, तदात्वे आयत्यां च पथ्यं सुखमावहति-प्रापयति यत् तत् तथाविधं, करोत्यसौ साधुः पदं-स्थानं, क्षेमं-शिवं, आत्मन एव, न त्वन्यस्येति अनेनैकान्तक्षणभङ्गव्यवच्छेदमाहेति ।।९.४.६ ।। जाइमरणाओ मुच्चई, इत्थत्थं च चयाइ सव्वसो | सिद्धे वा भवइ सासए, देवे वा अप्परए महिड्डिय ।।९.४.७।। ति बेमि (ति.) एतदेव स्पष्टयति–जातिमरणात्-जन्ममृत्युरूपात् संसारात् मुच्यते । इत्थं-नारकादिव्यपदेशबीजं, वर्णसंस्थानादिभिः प्रकारैः स्थितम्, इत्थंस्थम् । तच्च त्यजति । सर्वशः-सर्वप्रकारैः । अपुनर्ग्रहणतया सिद्धो वा भवति शाश्वतः । देवो वाऽल्परजाः-प्रतलकर्मा । महर्द्धिकः-अनुत्तरवैमानिकादिरेकावतारः । इति ब्रवीमीति प्राग्वत्. ।।९.४.७ ।। तिलकाचार्यवृत्तौ नवमध्ययनम् समाप्तम् (स.) एतदेव स्पष्टयति-जाइ...इति-असौ साधुर्जाति-मरणात् संसारान्मुच्यते, पुनः साधुः 'इत्थंस्थं त्यजति, कोऽर्थः ? इदंप्रकारमापन्नमित्थम् इत्थं स्थितमित्थंस्थं नारकादिव्यपदेशबीजं वर्णसंस्थानादि सर्वशः सर्वैः प्रकारैरपुनर्ग्रहणतया, एवं सिद्धो

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416