________________
३३३
नवमम् अध्ययनम् __ (ति.) सर्वसमाधि-फलमाह-अभिगम्य-विज्ञायासेव्यः । चतुरः समाधीन्अनन्तरोक्तान् । सुविशुद्धः-मनो-वाक्-कायैः । सुसमाहितात्मकः-संयमे । विपुलंविस्तीर्णं, हितं-वर्तमानानागतकलयोः पथ्यं, सुखं, आवहति प्रापयति, यत्, तद् विपुलहितसुखावहम् । पुनः । पदम्-स्थानम् । क्षेमम्-शिवम् । करोति आत्मनः सः साधुः ।।९.४.६ ।।
(स.) सर्बसमाधि-फलमाह-अभिगमे(म्म) इति-असौ साधुरात्मन एव न त्वन्यस्य पदं स्थानं क्षेमं शिवं करोति, किं कृत्वा ? चतुरः समाधीनभिगम्य सम्यग् विज्ञाय, किम्भूतः साधुः ? सुविशुद्धो मनो-वाक्-कायेन, पुनः सुसमाहितात्मा सप्तदशविधे संयमे, स एवंभूतः, किम्भूतं पदं ? विपुलहितसुखावहं विपुलं विस्तीर्णं हितं तदात्व आयतौ च पथ्यं सुखमावहति प्रापयति यत् तत् तथा. ।।९.४.६ ।।
(सु.) सर्वसमाधि फलमाह-अभिगम(म्म) इति, अभिगम्य-विज्ञायासेव्य च चतुरः समाधीननन्तरोदितान्, सुविशुद्धो मनो-वाक्-कायैः, सुसमाहितात्मा सप्तदशविधे संयमे, स एवंभूतो धर्मराज्यमासाद्य विपुलहितसुखावहं, पुनरिति विपुलं-विस्तीर्ण हितं, तदात्वे आयत्यां च पथ्यं सुखमावहति-प्रापयति यत् तत् तथाविधं, करोत्यसौ साधुः पदं-स्थानं, क्षेमं-शिवं, आत्मन एव, न त्वन्यस्येति अनेनैकान्तक्षणभङ्गव्यवच्छेदमाहेति ।।९.४.६ ।।
जाइमरणाओ मुच्चई, इत्थत्थं च चयाइ सव्वसो | सिद्धे वा भवइ सासए, देवे वा अप्परए महिड्डिय ।।९.४.७।। ति बेमि
(ति.) एतदेव स्पष्टयति–जातिमरणात्-जन्ममृत्युरूपात् संसारात् मुच्यते । इत्थं-नारकादिव्यपदेशबीजं, वर्णसंस्थानादिभिः प्रकारैः स्थितम्, इत्थंस्थम् । तच्च त्यजति । सर्वशः-सर्वप्रकारैः । अपुनर्ग्रहणतया सिद्धो वा भवति शाश्वतः । देवो वाऽल्परजाः-प्रतलकर्मा । महर्द्धिकः-अनुत्तरवैमानिकादिरेकावतारः । इति ब्रवीमीति प्राग्वत्. ।।९.४.७ ।। तिलकाचार्यवृत्तौ नवमध्ययनम् समाप्तम्
(स.) एतदेव स्पष्टयति-जाइ...इति-असौ साधुर्जाति-मरणात् संसारान्मुच्यते, पुनः साधुः 'इत्थंस्थं त्यजति, कोऽर्थः ? इदंप्रकारमापन्नमित्थम् इत्थं स्थितमित्थंस्थं नारकादिव्यपदेशबीजं वर्णसंस्थानादि सर्वशः सर्वैः प्रकारैरपुनर्ग्रहणतया, एवं सिद्धो