SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३३२ दशवैकालिकं-टीकात्रिकयुतम् आयतो दीर्घो, लक्षणया मोक्षस्तदर्थी-आयतार्थी । आचारसमाधिसंवृत्तः-आचारे यः समाधिस्तेन स्थगिताश्रवद्वारः । भवति च दान्तः-इन्द्रियनो-इन्द्रियदमकः | भां-प्रभां, जीवस्य स्वाभाविकी ज्योतीरूपाम्, अवयति-प्रापयति यः, अनेकार्थत्वाद् धातूनां, स भावो मोक्षः, तं सन्धत्तेऽन्यतोऽपि चेति, 'डप्रत्यये' भावसन्धः, स एव भावसन्धक:आत्मनो मोक्षासन्नत्वकारी ।।९.४.५।। (स.) अथाचारसमाधिमाह-चउविहा...इति-चतुर्विधः खल्वाचारसमाधिर्भवति, तद्यथा-नेहलोकार्थमाचारमधितिष्ठेत्, न परलोकार्थमाचारमधितिष्ठेत्, न कीर्ति-वर्णशब्द-श्लोक-निमित्तमाचारमधितिष्ठेत्, नान्यत्रार्ह तैरर्हत्सम्बन्धिभिर्हेतुभिराचारं मूलगुणोत्तरगुणमयमधितिष्ठेन्निरीहः सन् यथा मोक्ष एव भवति । ___ भवति चतुर्थं पदं, भवति चात्र श्लोक इति पूर्ववत् स चायं-जिणवयण इत्यादिजिनवचनरत आगमे सक्तः, अतिन्तिनो न-एकवारं किञ्चिदुक्तः सन्नसूयया भूयो भूयो वक्ता, प्रतिपूर्णः सूत्रादिना, आयतमायतार्थिकः, अत्यन्तं मोक्षार्थी, आचारसमाधिसंवृत इत्याचारे यः समाधिस्तेन स्थगिताश्रवद्वारः स भवति, पुनः किम्भूतः ? दान्त इन्द्रियनोइन्द्रियदमाभ्यां, भावसन्धकः, भावो मोक्षस्तत्सन्धक आत्मनो मोक्षासन्नकारीति. ।।९.४.५.।। (सु.) चउव्विहा इत्यादि, चतुर्विधः खल्वाचार-समाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः, नेहलोकार्थमित्याद्याचाराभिधानभेदेन पूर्ववत्, यावन्नान्यत्रार्हतैरर्हत्सम्बन्धिभिर्हेतुभिरनाश्रवत्वादिभिः आचारं-मूलगुणोत्तरगुणमयमधितिष्ठेत्, निरीहः सन् यथा मोक्ष एव भवतीति चतुर्थं पदं भवति ।। सूत्रम्-९.४.५।। __ भवति चात्र श्लोक इति पूर्ववत् स चायं 'जिणवयणरए' इत्यादि, जिनवचनरतःआगमे सक्तः, अतिन्तिनः-न सकृत् किञ्चिदुक्तः सन्नसूयया भूयो भूयो वक्ता, प्रतिपूर्णः सूत्रादिना, आयात-मायातार्थिकः-अत्यन्तं मोक्षार्थी, आचारसमाधिसंवृत इत्याचारे यः समाधिस्तेन स्थगिताश्रवद्वारः सन् भवति च दान्त इन्द्रियनो-इन्द्रियदमाभ्यां भावसन्धकोभावो-मोक्षस्तत्सन्धक आत्मनो मोक्षासन्नकारीति ।।९.४.५।। अभिगम्म चउरो समाहिओ, सुविसुद्धो सुसमाहिअप्पओ | विउलहियसुहावहं पुणो, कुबइ सा पयखेममप्पणो ।।९.४.६ ।। १. 'सुमति० वृत्तौ' 'असो' पाठः मूलत्वेन, विवृतश्च तथैव. - 'असो'.
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy