________________
नवमम् अध्ययनम्
उक्तस्तपःसमाधिः, ।।९.४.४।।
(सु.) तपःसमाधिमाह - चउव्विहा इत्यादि, चतुर्विधः खलु तपःसमाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः, नेहलोकार्थमिहलोकनिमित्तं लब्ध्यादिवाञ्छया, तपःअनशनादिरूपमधितिष्ठेत्-कुर्यात् धर्मिलवत् (१) तथा न परलोकार्थं -जन्मान्तरभोगनिमित्तं तपोऽधितिष्ठेद् ब्रह्मदत्तवत् (२) एवं न कीर्त्ति - वर्ण - शब्द - श्लाघार्थमिति, सर्व्वदिग्व्यापी साधुवादः कीर्त्तिः, एकदिग्व्यापी वर्णो, अर्द्धदिग्व्यापी शब्दः, तत्स्थान एव श्लाघा, नैतदर्थं तपोऽधितिष्ठेत् (३) अपि तु नान्यत्र निर्जरार्थमिति, न कर्म्मनिर्जरामेकां विहाय तपोऽधितिष्ठेत्, अकामः सन् यथा कर्मनिर्जरैव फलं भवति तथाधितिष्ठेदित्यर्थः (४) चतुर्थं पदं भवति ।।सूत्रम्-९.४.४।।
३३१
भवति चात्र श्लोक-इति पूर्ववत् स चायं विविह... इत्यादि, विविधगुणतपोरतो हि नित्यमनशनाद्य-पेक्षयाऽनेकगुणं यत् तपः, तद्रत एव सदा भवति, निराशो निष्प्रत्याश इहलोकादिषु, निर्जरार्थिकः - कर्मनिर्जरार्थी, स एवंभूतः तपसा विशुद्धेन, धुनोतिअपनयति पुराणपापं-चिरन्तनं कर्म, नवं च न बध्नाति एवं युक्तः सदा तपःसमाधाविति उक्तः तपःसमाधिः, ।।९.४.४।।
चउव्विहा खलु आयारसमाही भवइ, तं जहा-नो इहलोगट्टयाए आयारमहिट्ठिज्जा, नो परलोगट्टयाए आयारमहिट्टिज्जा, नो कित्ति-वन्न- सद्द-सिलोगट्टयाए आयारमहिट्ठिज्जा, नन्नत्थ आरिहंतेहिं हेऊहिं आयारमहिट्टिज्जा | सूत्र - ९.४.५ चउत्थं पयं भवइ ।
(ति) आचारसमाधिमाह - अर्थः प्राग्वत् । नवरम् । तपःशब्दस्थाने आचारशब्दो - ऽभिधेयः । आरिहंतेहिं हेऊहिं नान्यत्र - आर्हतैर्हेतुभिरनाश्रवत्वादिभिः । आचारम्मूलगुणोत्तरगुणमयम् । अधितिष्ठेत्, निरीहः सन् यथा मोक्ष एव भवति । चतुर्थपदं भवति ।
भवइ य इत्थ सिलोगो -
जिणवयणरए अतिंतिणे, पडिपुन्नाययमाययट्ठिए । आयारसमाहिसंवुडे, भवइ य दंते भावसंधए ।। ९.४.५ ।।
(ति.) भवति चात्र श्लोकः - जिनवचनरतः - आगमे कृतासक्तिः । अतिंतिनः- केनापि किमप्युक्तः सन् पुनः पुनः ओषणशीलः । परिपूर्णः -सूत्रादिना, आयतम् - अत्यन्तम् ।