________________
३३०
दशवैकालिकं-टीकात्रिकयुतम् ___ चउबिहा खलु तवसमाही भवइ, तं जहा-नो इहलोगट्टयाए तवमहिट्ठिज्जा, नो परलोगट्टयाए तवमहिट्ठिज्जा, नो कित्ति-वन्न-सह-सिलोगट्टयाए तवसमहिट्ठिज्जा, नन्नत्थ निज्जरट्ठयाए तवमहिट्ठिज्जा । चउत्थं पयं भवइ । सूत्र-९.४.३
(ति.) अथ तपासमाधिमाह चतुर्विधः खलु तपासमाधिर्भवति । तद्-यथाइहलोकार्थम्-लब्ध्यादिवाञ्छया । तपः-अनशनादिरूपम् । नाधितिष्ठेत्-न कुर्यात्, धम्मिलवत् । न परलोकार्थम्-जन्मान्तरभोगनिमित्तम् । तपोऽधितिष्ठेत्-ब्रह्मदत्तवत् । एवं न कीर्ति-वर्ण-शब्द-श्लाघार्थम्-सर्वदिग्व्यापी साधुवादः कीर्तिः, एकदिग्व्यापी वर्णः, अर्द्धदिग्व्यापी शब्दः, तत्स्थान एव साधुवादः श्लाघा । नैतदर्थं तपोऽधितिष्ठेत् । नान्यत्र निर्जरार्थम्-न कर्मनिर्जरामेकां विहाय । तपोऽधितिष्ठेत् । चतुर्थपदं भवति ।
भवइ य इत्थ सिलोगो - विविहगुणतवोरए निच्चं, भवइ निरासए निज्जरट्ठिए । तवसा धुणइ पुराणपावगं, जुत्तो सया तवसमाहिए ।।९.४.४।।
(ति.) भवति चात्र श्लोकः विविधगुणतपोरतो नित्यम् । निराश-निःप्रत्याशः, इहलोक-परलोकार्थयोः। निर्जरार्थिकः-कर्मनिर्जरार्थी । ईदृक् साधुः तपसा धुनाति पुराणपापकं नवं च न बध्नाति । युक्तः सदा तपःसमाधौ ।।९.४.४।।
(स.) अथ तपःसमाधिमाह-चउव्विहा...इति-चतुर्विधः खलु तपासमाधिर्भवति, तद्यथेत्युदाहरणे, नेहलोकार्थमिहलोकनिमित्तं लब्ध्यादेर्वाञ्छया तपोऽनशनादिरूपं साधुरधितिष्ठेत् कुर्यात्, धर्मिलवत्, तथा न परलोकार्थं जन्मान्तरभोग-निमित्तं तपोऽधितिष्ठेद् ब्रह्मदत्तवत, एवं न कीर्ति-वर्ण-शब्द-श्लाघार्थमिति. तत्र सर्वदिग्व्यापी साधुवादः कीर्तिः, एकदिग्व्यापी वर्णः, अर्द्धदिग्व्यापी शब्दः, स्वस्थान एव साधुवादः श्लोकः श्लाघा वा, नैतन्निमित्तं तपोऽधितिष्ठेत्, अकामः सन् यथा कर्मनिर्जरैव फलं भवति तथाधितिष्ठेदिति, चतुर्थं पदं भवति ।
भवति चात्र श्लोक इति पूर्ववत्, स चायं-विविह (विविध) इति-विविधगुणतपोरतो हि नित्यमनशनाद्यपेक्षयानेकगुणं यत्, तपः, तद्रत एव सदा भवति निराशो निष्प्रत्याश इहलोकादिषु, निर्जरार्थिकः कर्मनिर्जरार्थी, स एवम्भूतस्तपसा विशुद्धेन धुनोत्यपनयति साधुः पुराणपापं चिरन्तनं कर्म, नवं च न बध्नात्येवं युक्तः सदा तपःसमाधाविति.