________________
नवमम् अध्ययनम्
भवइ य इत्थ सिलोगो
-
नाणमेगग्गचित्तो य, ठिओ ठावयई परं ।
सुयाणि अहिज्झित्ता, रओ सुयसमाहिए ।।९.४.३ ।।
३२९
( ति.) भवति चात्र श्लोकः स चायम् - श्रुताध्ययनात् ज्ञानं भवति । ज्ञानाच्च एकाग्रचित्तता । एकाग्रचित्तस्य शुद्धधर्मस्थितिः स्यात् । शुद्धधर्मे स्थितः शिष्यादिकं तत्र स्थापयति । श्रुतानि चाधीत्य श्रुतसमाधौ रतो भवति ।।९.४.३ ।।
(स.) अथ द्वितीयं श्रुतसमाधिमाह - तत्र 'चउव्विहा इत्यादि सूत्रं चतुर्विधः खलु श्रुतसमाधिर्भवति. तद्यथा श्रुतं मे आचारादि द्वादशाङ्गं भविष्यतीत्यनया बुद्ध्याध्येतव्यं भवति, न गौरवाद्यालम्बनेन तथाध्ययनं कुर्वन्नेकाग्रचित्तो भविष्यामि न विप्लुतचित्त इत्यध्येतव्यं भवति, अनेन चालम्बनेन तथाध्ययनं कुर्वन् ज्ञातधर्मतत्त्वोऽहमात्मानं शुद्धधर्मे स्थापयिष्यामि, तथाध्ययनफलात् स्थितः स्वयं धर्मे, परं विनेयं स्थापयिष्यामीत्यनेन चालम्बनेन, चतुर्थं पदं भवति, भवति चात्र श्लोक इति पूर्ववत्.
स चायं श्लोकः - नाणमिति - अध्ययनतत्परस्य ज्ञानं भवति, एकाग्रचित्तश्च तत्परतया एकाग्रालम्बनश्च भवति, स्थित इति विवेकाद् धर्मे स्थितो भवति, स्थापयति च परमिति स्वयं धर्मे स्थितत्वादन्यमपि स्थापयति, श्रुतानि च नानाप्रकाराण्यधीत्य रतः सक्तो भवति श्रुतसमाधाविति सूत्रार्थः उक्तः श्रुतसमाधिः, । ।९.४.३ । ।
(सु.) श्रुतसमाधिमाह - चउव्विहा इत्यादि, चतुर्विधः खलु श्रुतसमाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः । श्रुतं मे आचारादि द्वादशाङ्गं भविष्यतीत्यनया बुद्ध्या अध्येतव्यं भवति, न गौरवाद्यालम्बनेन ( १ ) तथा अध्ययनं कुर्वन्नेकाग्रचित्तो भविष्यामि, न च विप्लुतचित्त इत्यध्येतव्यं भवति अनेन चालम्बनेन (२) तथाऽध्ययनं कुर्वन् विदितधर्म्मतत्त्व आत्मानं स्थापयिष्यामि शुद्धधर्म इत्यनेन चालम्बनेनाध्येतव्यं भवति (३) तथा अध्ययनफलात् स्थितः स्वयं धर्म्मो परं विनेयं स्थापयिष्यामि तत्रैवेत्यध्येतव्यं भवत्यनेन चालम्बनेनाध्येतव्यं (४) चतुर्थं पदं भवति ।।सूत्र- ९.४.३।।
भवति चात्र श्लोक इति पूर्ववत् स चायं नाणमिति, ज्ञानमित्यध्ययनपरस्य ज्ञानं भवत्येकाग्रचित्तश्च तत्परतया एकाग्रालम्बनश्च भवति, स्थित इति विवेकाद् धर्म्मस्थितो भवति, स्थापयति परमिति स्वयं धर्म्मस्थितत्वादन्यमपि स्थापयति, श्रुतानि च नानाप्रकाराण्यधीते, अधीत्य च रतः-सक्तो भवति, श्रुतसमाधाविति उक्तः श्रुतसमाधिः ।।९.४.३ ।।