SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३३४ दशवैकालिकं-टीकात्रिकयुतम् वा कर्मक्षयात् सिद्धो भवति, कीदृशः सिद्धः ? शाश्वतोऽपुनरागामी सावशेषकर्मा देवो वा भवति, किम्भूतो देवः ? अल्परतः कण्डूपरिगतकण्डूयनकल्परतरहितः, महर्द्धिकोऽनुत्तरवैमानिकादिः, ब्रवीमीति, पूर्ववत्. ७. इति चतुर्थ उद्देशकः ४. __ "इति श्रीदशवैकालिकशब्दार्थवृत्तौ श्रीसमयसुन्दरोपाध्यायविरचितायां विनयसमाध्यध्ययनं सम्पूर्णम् ९." श्रीरस्तु. (सु.) एतदेव स्पष्टयति जाइ इति, जाति-(जरा)-मरणात् जन्म-(जरा)-मरणात् संसारान्मुच्यते, असौ सुसाधुरित्थस्थं चेति इदंप्रकारमापन्नमित्थं इत्थं तिष्ठतीतीत्थंस्थंनारकादिव्यपदेशबीजं, वर्णसंस्थानादि तच्च चएइ-त्यजति, सर्वशः-सर्वैः प्रकारैरपुनर्ग्रहणतया, एवं सिद्धो वा कर्मक्षयात् सिद्धो भवति, शाश्वतोऽपुनरागामी सावशेषकर्मा देवो वाऽल्परतः-पामापरिगतकण्डूयनकल्परतरहितो महर्द्धिकः-अनुत्तरवैमानिकादिः ||४६०।। ब्रवीमीति पूर्ववत् ।। इति विनयसमाधौ चतुर्थ उद्देशकः ।। इति श्रीसुमतिसाधुविरचितावचूरौ नवमं विनयसमाधिनाममध्ययनं समाप्तम् ९ ।। १. 'सुमति० वृत्ति ग्रन्थे' 'जाइ(जरा)मरण' इति पाठः पूर्व संपादकेन गृहीतः, वृत्तावत्रास्माभिः 'जरा शद्धः कोष्ठमध्ये स्थापितः नान्यत्र वृत्तौ विवृतत्वात्।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy