________________
(|| दशमं अध्ययनं-सभिक्षु ।।) निक्खम्म माणाइ(अ) बुद्धवयणे, निच्चं चित्तसमाहिओ भविज्जा । इत्थीण वसं न यावि गच्छे, वंतं नो पडियायए स भिक्खू ।।१०.१।। (ति.) अनन्तराध्ययने आचारप्रणिहितो यथोक्तविनयसम्पन्नो भवतीत्युक्तम् । अत्र चैतेषु नवस्वध्ययनेषु यो व्यवस्थितः, स सम्यग भिक्षुरिति, अनेन सम्बन्धेनायातं सभिक्ष्वध्ययनं व्याख्यायते । तस्य चेदमादिसूत्रम् - निःक्रम्य-प्रव्रज्य । आज्ञयासद्गुरूपदेशेन । बुद्धवचने-सर्वज्ञप्रवचने । नित्यं चित्तसमाहितः-चित्तेनातिप्रसन्नो भवेत् । चित्तसमाधानं च स्त्रीवशस्य वान्तमापिबतश्च न स्यात-अतस्तान(तिं) निषेधयति, स्त्रीणां च वशं न गच्छेत्, तदायत्तो न भवेत्, तद्वशो हि वान्तं विषयरसं प्रत्यापिबति, तं च यो न प्रत्यापिबति स भिक्षुः । तस्माद् भिक्षुणा स्त्रियो दूरतस्त्याज्याः ||१०.१।।
(स.) निक्खम्म...इति-अथ सभिक्षुनामकमध्ययनमारभ्यते, अस्य चायमभिसम्बन्धःइह पूर्वाध्ययन आचारप्रणिहितो यथोचितविनयसम्पन्नो भवतीत्येतदुक्तम्, इह त्वेतेष्वेव नवस्वध्ययनेषु व्यवस्थितः, स सम्यग् भिक्षुरित्युच्यते, इत्यनेन सम्बन्धेनायातमिदमध्ययनं व्याख्यायते, तच्चेदं-स भिक्षुर्भवेत्, स कः ? यो निष्क्रम्य द्रव्यभावगृहात् प्रव्रज्यां गृहीत्वेत्यर्थः, कया ? आज्ञया, तीर्थकरगणधराणामुपदेशेन, बुद्धवचने तीर्थकरगणधरवचने नित्यं सर्वकालं चित्तेन समाहितोऽतिप्रसन्नो भवेत्, प्रवचन एव अभियुक्त इति गर्भः, अथ व्यतिरेकतः समाधानोपायमाह-पुनः स्त्रीणां सर्वाऽसत्कार्यनिबन्धनभूतानां वशं तत्परतन्त्रतारूपं न चापि गच्छेत्, तद्वशगो हि नियमतो वान्तं प्रत्यापिबति, अतो बुद्धवचने चित्तसमाधानतः सर्वथा स्त्रीवशत्यागात्, अनेनैवोपायेनान्योपायासम्भवाद् वान्तं परित्यक्तं यद् विषयजम्बालं न प्रत्यापिबति न मनागप्याभोगतोऽनाभोगतश्च तत् सेवते. ||१०.१.।।
(सु.) व्याख्यातं विनयसमाध्यध्ययनम् । अधुना सभिक्ष्वाख्यमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने आचारप्रणिहितो यथोचितविनयसंपन्नो भवतीत्येतदुक्तं, १. हवेज्जा, अथवा हविज्जा इत्यन्यत्र मुद्रितम् । २.२. समय. वृत्तौ सर्वत्र 'जे स' मूलतः, विवृत्तं च' यः स'इति, चूर्णी९.११.१९ गाथासु एवं 'जे' मूलपाठः ३. क्वचिदिदं पदं नास्ति ।