________________
३३६.
दशवैकालिकं-टीकात्रिकयुतम् इह त्वेतेष्वेव नवस्वध्ययनार्थेषु यो व्यवस्थितः स सम्यग् भिक्षुरित्येतदुच्यते, इत्यनेनाभिसम्बन्धेनायातमिदमध्ययनमिति । तच्चेदं-किंच- निक्खम्म...इति, निष्क्रम्यद्रव्यभावगृहात्, प्रव्रज्यां गृहीत्वेत्यर्थः आज्ञया-तीर्थकर-गणधरोपदेशेन योग्यतायां सत्यां, निष्क्रम्य किम् ?-इत्याह-बुद्धवचने-अवगततत्त्व-तीर्थकरगणधरवचने, नित्यंसर्वकालं, चित्तसमाहितश्चित्तेनातिप्रसन्नो भवेत्, प्रवचनें एवाभियुक्त इति गर्भः । व्यतिरे कतः समाधानोपायमाह-स्त्रीणां सर्वासामसत्कार्य-निबन्धनभूतानां वशं तत्परतन्त्रता(तदायत्तता)रूपं न चापि गच्छेत्, तद्वशगो हि नियमतो वान्तं प्रत्यापिबति, अतो बुद्धवचनचित्तसमाधानतः सर्वथा स्त्रीवशत्यागात्, अनेनैवोपायेन, अन्योपायासम्भवात्, वान्तं-परित्यक्तं सद् विषयजम्बालं न प्रत्यापिबति-न मनागप्याभोगतोऽनाभोगतश्च तत्सेवते या, स भिक्षुर्भावभिक्षुरिति ।।१०.१।।
पुढविं न खणे न खणावए, सीओदगं न पिवे न पि(पी)वावए । अगणिसत्यं जहा सुनिसियं, तं न जले न जलावए स भिक्खू ।।१०.२।। (ति.) तथा (पुढविं'इति) पूर्वार्धं स्पष्टम् । उत्तरार्धस्यार्थः । अग्निः-षट्जीवनिकायघातकः । यथा शस्त्रम् । सुनिशितम्-सुतीक्ष्णं, खड्गादि । तं न स्वयं ज्वलयति । न परैः ज्वालयति। नान्यं ज्वालयन्तमनुजानाति स भिक्षुः |
आह पर:-षड्जीवनिकायिकादिषु बहुष्वध्ययनेष्वयमर्थोऽभिहितः किं पुनरुक्तः ? इत्युच्यते-तदुक्तार्थानुष्ठानपर एव भिक्षुरितिज्ञापनार्थमिति न दोषः ।।१०.२।।
(स.) तथा-पुढविं'इति-तथा साधुः पृथ्वी सचेतनादिरूपां न खनति स्वयं, न च खानयति परैः, एकग्रहणे तज्जातीयानामपि ग्रहणात् खनन्तमन्यं न संमनुजानातीत्येवं सर्वत्र वेदितव्यम्. तथा यः साधुः सचित्तं पानीयं स्वयं न पिबति, न च पाययति परान्, तथाग्निः षड्जीवनिकायघातकः, किंवत् ? यथा सुनिशितमुज्ज्वालितं शस्त्रं जीवघातकं भवेत्, ततस्तमग्निं यः स्वयं न ज्वालयति, परैर्न ज्वालयति, स इत्यम्भूतो भिक्षुर्भवेत्,
ननु षड्जीवनिकायादिष्वध्ययनेषु पूर्वोक्तेषु सर्वत्रायमेवार्थः कथितः, किमर्थं पुनरपि
१. नानुजानातीति पाठान्तरम् ।