________________
चतुर्थम् अध्ययनम् नान्येनालिखनादि कारयेत् । अन्यमालिखनादि कुर्वन्तं न समणुजाणामीत्यादि प्राग्वत् ||सूत्र-१०।।
(स.) इदं वक्ष्यमाणं न कुर्यात्, किं तद् इति ? - आह-से पुढविं वा...पृथिवी लोष्टादिरहिता, भित्तिर्नदीतटी, शिला विशालः पाषाणः लेष्टुः प्रसिद्धः, सह रजसाअरण्यपांशुलक्षणेन वर्तते यः स सरजस्कः, कः ? कायो देहस्तं. सरजस्कं वा वस्त्रं चोलपट्टकादि. एकग्रहणेन तज्जातीयग्रहणमिति न्यायात् पात्रादि-परिग्रहः, एतानि किमित्याह-हस्तेन वा पादेन वा. काष्ठेन वा किलिञ्चेन वा क्षुद्ररूपेण वा अगुल्या वा शलाकया वा लोहशलाकारूपया. शलाकाहस्तेन शलाकासमूहरूपेण वा, किं न कुर्यादित्याह-न आलिखेत्, आ ईषत् सकृद् वा लेखनं न स्वयं कुर्यात्, न विलिखेत्, नापि स्वयं नितरामनेकशो वा लेखनं कुर्यात्, न घट्टयेत्, न स्वयं घट्टनं चालनं कुर्यात्, न भिन्द्यात्, न स्वयं भेदं विदारणं कुर्यात्. तथान्यमन्येन, वा नालेखयेत्, न विलेखयेत्, न घट्टयेत्, न भेदयेत्. तथान्यं स्वत एवालिखन्तं वा विलिखन्तं वा घट्टयन्तं वा भिन्दन्तं वा न समनुजानीयादित्यादि पूर्ववत्. १।
(सु.) इदं वक्ष्यमाणं न कुर्यात्, किं तद् ? इत्याह ‘से पुढविं वा' इत्यादि, तद्यथापृथिवीं वा भित्तिं वा शिलां वा लेष्टुं(लोष्टं) वा, तत्र पृथिवी-लोष्टादिरहिता, भित्तिःनदीतटी, शिला विशालः पाषाणः, लेष्टुः(लोष्टः) प्रसिद्धः, सह रजसा-अरण्यपांशुलक्षणेन वर्तते इति सरजस्कं वा 'कायं' कायमिति देहं, सरजस्कं वा वस्त्रं-चोलपट्टकादि, एकग्रहणात् तज्जातीयग्रहणमिति पात्रादिपरिग्रहः, एतत् किमित्याह-हस्तेन वा पादेन वा काष्ठेन वा किलिञ्चेन वा-क्षुद्रकाष्ठरूपेण अङ्गुल्या वा शलाकया वाअयःशलाकादिरूपया शलाकाहस्तेन वा-शलाकासंघातरूपेण, नालिहित इति नालिखेत् न विलिखेत् न घट्टयेत् न भिन्द्यात्, तत्रेषत् सकृद् वाऽऽलेखनं, निरन्तरमनेकशो वा विलि(ले)खनं, घट्टनं-चालनं, भेदो-विदारणं, एतत् स्वयं न कुर्यात्, तथाऽन्यमन्येन वा नालेखयेत्, न घट्टयेत्, न भेदयेत्, तथाऽन्यं स्वत एव आलिखन्तं वा विलिखन्तं वा घट्टयन्तं वा भिन्दन्तं वा न समनुजानीयात्-इत्यादि पूर्ववत् ।१०। तथा
से भिक्खू वा भिक्षुणी वा संजय-विरय-पडिहयपच्चक्खायपावकम्मे दिया वा राउ वा एगउ वा परिसागउ वा सुत्ते वा जागरमाणे वा ।