________________
६६
दशवैकालिकं-टीकात्रिकयुतम् शाखाया-वृक्षादेः । शाखभङ्गेन-शाखैकदेशेन । पेहुणेन-मयूरपिच्छेन । पेहुणहस्तेन मयूर-पिच्छकलापेन, यथा केशहस्तः केशकलापः, तथात्रापि । चेलेन वा-वस्त्रेण । चेलकर्णेन-चेलाञ्चलेन । हस्तेन वा मुखेन वा । एभिः किम् ? आत्मनः कायं बाह्यं वापि पुद्गलम्-उष्णौदनादि | न फूत्कुर्यात् न वीजयेत् । अन्यं न फूत्कारयेत् न वीजयेत् । अन्यं फूत्कुर्वन्तं वीजयन्तं वा । न समणुजाणामीत्यादि प्राग्वत् ।।सूत्र-१३।।
(स.) पुनः-सितेन वा चामरेण, विधुवनेन वा व्यजनेन, तालवृन्तेन वा तेनैव मध्यग्रहणच्छिद्रेण द्विपुटेन, पत्रेण वा पद्मिनीपत्रादिना, पत्रभङ्गेन तस्यैकदेशेन, शाखया वा वृक्षडालया, शाखाभङ्गेन वा शाखादेशेन, पिहुणेण वा मयूरादिपिच्छेन, पिहुणहत्थेण वा मयूरादिपिच्छसमूहेन, चै(चे)लेन वा वस्त्रेण, चै(चे)लकर्णेन वा वस्त्रैकदेशेन, हस्तेन वा करेण, मुखेन वा वदनेन, एभिः कृत्वा किमित्याह-आत्मनो वा कायं स्वदेह-मित्यर्थः, बाह्यं वा पुद्गलमुष्णोदकादि, एतत् किमित्याह-न फुमिज्जा न स्वयं फूत्कुर्यात्, मुखेन धमनं न कुर्यात्, न वीइज्जा न वीजयेच्चामरादिना. तथान्यमन्येन वा न फूत्कारयेत्, न वीजयेत्. तथान्यं स्वत एव फुत्कुर्वन्तं वा व्यजन्तं वा न समनुजानीयादित्यादि पूर्ववत्. ४. ___ (सु.) 'से सिएण'वा-इत्यादि, तद्यथा-सितेन वा विधुवनेन वा तालवृन्तेन वा पत्रेण वा शाखया वा शाखाभङ्गेन वा पेहुणेन वा पेहुणहस्तेन वा चेलेन वा चेलकर्णेन वा हस्तेन वा मुखेन वा, इह सितं-चामरं, विधुवनं-व्यजनं, तालवृन्तं-तदेव मध्यग्रहणच्छिद्रं द्विपुटं, पत्रं पद्मिनीपत्रादि, शाखा-वृक्षडालं, शाखाभङ्ग-तदेकदेशः, पेहुणं-मयूरादिपिच्छं, पेहुणहस्तकः-तत्समूहः, चेलं-वस्त्रं, चेलकर्णः-तदेकदेशः, हस्तमुखे प्रतीते, एभिः किमित्याह-आत्मनो वा कायं-स्वदेहमित्यर्थः, बाह्यं वा पुद्गलंउष्णौदनादि, एतत् किमित्याह-'न फुमेज्जा' इत्यादि, न फूत्कुर्यात्, न व्यजेत्, तत्र फूत्करणं मुखेन धमनं, व्यजनं चमरादिना वायुकरणम्, एतत् स्वयं न कुर्यात्, तथाऽन्यमन्येन वा न फूत्कारयेत् न व्याजयेत्, तथाऽन्यं स्वत फुत्कुर्वन्तं वा व्यजन्तं वा न समनुजानीयात्-इत्यादि पूर्ववत् ।१३। ___ से भिक्खू वा भिक्खूणी वा संजय-विरय-पडिहयपच्चक्खाय-पावकम्मे दिया वा राउ वा एगउ वा परिसागउ वा सुते वा जागरमाणे वा ।
(ति.) प्राग्वत् -