Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 309
________________ २९४ दशवैकालिकं- टीकात्रिकयुतम् कायेन शरीरेण तथा गिरा वाचा, 'मस्तकेन वन्दे' इत्यादिरूपया, भो ! इति शिष्यस्यामन्त्रणे, मनसा भावप्रतिबन्धरूपेण, नित्यं सदैव सत्कारयेत्, न तु सूत्रग्रहणकाल एव, कुशलानुबन्धच्छेदन - प्रसङ्गात् ।।९.१.१२ । । (सु.) एतदेव स्पष्टयति - जस्स... इति, यस्यान्तिके - यस्य समीपे धर्मपदानिधर्मफलानि सिद्धान्तपदानि शिक्षेत - आदद्यात् तस्यान्तिके तत्समीपे, किम् ? - इत्याहवैनयिकं प्रयुञ्जीत-विनय एव वैनयिकं तत् कुर्यादितिभावः, कथम् ?-इत्याहसत्कारयेदभ्युत्थानादिना, पूर्वोक्तेन युक्तः शिरसा - उत्तमाङ्गेन प्राञ्जलिः- प्रोद्गताञ्जलिः सन्, कायेन-देहेन, गिरा - वाचा, मस्तकेन वन्दे इत्यादिरूपया भो ! इति शिष्यामन्त्रणं, मनसा च-भावप्रतिबन्धरूपेण, नित्यं सदैव सत्कारयेत्, न तु सूत्रग्रहणकाल एव, कुशलानुबन्धव्यवच्छेदप्रसङ्गादिति ।।९.१.१२ ।। लज्जा दया संजम बंभचेरं, कल्लाणभागिस्स विसोहिठाणं । जे मे गुरू सययमणुसासयंति, ते हं गुरू सययं पूययामि ।।२.१.१३।। ( ति . ) एवं च मनसि कुर्यात् - लज्जा... इति, लज्जा - अपवादभयरूपा । दया संयमो ब्रह्मचर्यं च । एतानि कल्याणभागिनः - मोक्षार्थिनो जीवस्य । विशोधिस्थानम्कर्ममलापनयनास्पदम् । इति मां गुरवः सततमनुशासयन्ति । तान् अहं गुरून् सततं पूजयामि ।।९.१.१३।। (स.) एवं च मनसि कुर्यात् - लज्जा... इति, लज्जा दया संयपो ब्रह्मचर्यं च, एतच्चतुष्टयं कल्याणभागिनो मोक्षाभिलाषिणो जीवस्य विपक्षव्यावृत्त्या कुशलपक्षप्रवर्तकत्वेन च विशोधिस्थानं कर्ममलापनयनस्थानं वर्तते, तत्र लज्जा अपवादभयरूपा, दया अनुकम्पा, संयमः पृथिव्यादिविषयः, ब्रह्मचर्यं विशुद्धतपोऽनुष्ठानम्, एतत्कथनेनैतज्जातं, ये गुरवो मां सततं निरन्तरमनुशासयन्ति कल्याणयोग्यतां नयन्ति, तानहमेतादृशान् गुरून् सततं पूजयामि, न तेभ्योऽन्यः पूजायोग्य इति ।।९.१.१३।। (सु.) एवं च मनसि कुर्यादित्याह - लज्जा दया...इति, लज्जा - अपवादभयरूपा, दया-अनुकम्पा, संयमः पृथिव्यादि - जीवविषयः, ब्रह्मचर्यं विशुद्धतपोऽनुष्ठानं, एतल्लज्जादि विपक्षव्यावृत्त्या कुशलपक्ष प्रवर्तकत्वेन कल्याणभागिनो-मोक्षभागिनो जीवस्य विशोधिस्थानं-कर्ममलापनयनस्थानं वर्त्तते, अनेन 'ये मां गुरव आचार्याः सततं-अनवरतं अनुशासयन्ति - कल्याणयोग्यतां नयन्ति तानहमेवंभूतान् गुरून् सततं

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416