________________
६९
चतुर्थम् अध्ययनम् नैनम्-कीटादिकम् सङ्घातम् विनाशं मिथो गात्रस्पर्शरूपं वा-तेषां पीडामापादयेत्जनयेदित्यर्थः । शेषं स्पष्टम् । नवरम् उण्डकम्-स्थण्डिलं, योगोत्सर्गाय मात्रकम् । शय्या-वसतिः ||सू.१५।।
(स.) स इति-कीटं वा द्वीन्द्रियं पतङ्गं वा कुन्थु वा त्रीन्द्रियं पिपीलिकां वा, किमित्याह-हस्ते वा पादे वा बाहौ वा ऊरुणि वा उदरे वा शिरसि वा वस्त्रे वा पात्रे वा कम्बलके वा पादप्रोञ्छनके वा रजोहरणे वा गोच्छे वा उन्दके मात्रके स्थण्डिले वा दण्डके वा पीठके वा फलके वा शय्यायां वा संस्तारके वा अन्यतरस्मिन् वा तथाप्रकारे साधुक्रियाया उपयोगिनि उपकरणजाते, तेषु स्थानेषु कीटादिरूपं त्रसं कथञ्चिदापतितं सन्तं संयत एव सत्प्रयत्नेन वा प्रत्युपेक्ष्य प्रत्युपेक्ष्य पौनःपुन्येन, सम्यक् प्रमृज्य प्रमृज्य पौनःपुन्येन. सम्यक् किमित्याह-एकान्ते यत्र स्थाने तस्य कीटादेरुपघातो न भवति तत्रापनयेत् परित्यजेत्, परं नैनं सङ्घातमापादयेत्. नैनं त्रसं सङ्घातं परस्परगात्रसंस्पर्शपीडारूपमापादयेत् प्रापयेत्. अनेन. कथनेन परितापनादिप्रतिषेध उक्तो ज्ञातव्यः. एकस्य करणस्य ग्रहणेनान्यकारणानुमत्योरपि प्रतिषेधः ६.
(सु.) सेभिक्खू वा-इत्यादि यावत्-'जागरमाणे पूर्ववत्, स कीटं वा पतङ्गं वा कुन्थु वा पिपीलिकां वा, किमित्याह-हस्ते वा पादे वा बाहौ वा ऊरुणि वा उदरे वा शिरसि वा वस्त्रे वा पात्रे वा रजोहरणे वा कंबले वा गोच्छे वा उन्दके वा दण्डके वा पीठके वा फलके वा शय्यायां वा संस्तारके वा अन्यतरस्मिन् वा तथाप्रकारे साधुक्रियोपयोगिन्युपकरणजाते कीटादिरूपं त्रसं कथञ्चिदापतितं सन्तं संयत एव सन् प्रयत्नेन वा प्रत्युपेक्ष्य प्रत्युपेक्ष्य पौनःपुन्येन सम्यक्, प्रमृज्य प्रमृज्य पौनःपुन्येनैव सम्यक्, किमित्याह-एकान्ते-तस्यानुपघातके स्थाने अपनयेत्-परित्यजेत्, "नैनं त्रसं संघातमापादयेत्, नैनं त्रसं संघातं-परस्परगात्रसंस्पर्शपीडारूपमापादयेत्-प्रापयेत्, अनेन परितापनादिप्रतिषेध उक्तो वेदितव्यः, एकग्रहणे तज्जातीयग्रहणादन्यकारणानुमतिप्रतिषेधश्च, शेषमत्र प्रकटार्थमेव, नवरमुन्दकं-स्थंडिलं, शय्या संस्तारिका वसतिर्वा ।१५। इत्युक्ता यतना, गतश्चतुर्थोऽर्थाधिकारः |
अजयं चरमाणो य, पाणभूयाई हिंसई । बंधई पावयं कम्म, तं से होइ कडुयं फलं ।।४.१।।