Book Title: Chaturthstutinirnay Shankoddhar
Author(s): Dhanvijaymuni
Publisher: Saudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
View full book text
________________
૨૯૪
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર વેયાવચ્ચગરાણના કાયોત્સર્ગ તથા તેમની જુદી જુદી થયો કહેવી કહી છે, તેમજ શ્રી તિલકાચાર્ય કૃત વિધિપ્રપા સામાચારીમાં પણ ત્રણ થોયના દેવવંદન કર્યા પછી વૈયાવૃત્ય પ્રમુખના કાયોત્સર્ગાદિ કહ્યાં છે. તેવી જ રીતે સ્વ-સ્વ ગચ્છ સામાચારીઓમાં તથા પ્રતિષ્ઠાકલ્પાદિકમાં ચોથી થોય સાથે ત્રણ થોયની દેવવંદના કરવી કહી છે, તે વિરતિ પ્રતિપન્નકાળે ચૈત્યવંદના વગેરે ઉપચાર કરીને અવશ્ય નજીકના દેવતા સંનિધાન હોય એટલે નિકટ આવેલા દેવતા સાક્ષી હોય. તેમજ શ્રી પાક્ષિકસૂત્રવૃત્તિમાં કહ્યું છે. તે પાઠ :
कतिसाक्षिकं पुनरिदं प्रत्याख्यानमिति चेत् ? उच्यते अर्हदादिपंचकसाक्षिकं । एतदेव दर्शयति - तंजहेत्यादि । तद्यथेत्युपदर्शनार्थः । अर्हन्तस्तीर्थकरास्ते साक्षिणः समक्षभावर्तिनो यत्र तच्छेषाद्वेति कप्रत्ययविधानादर्हत्साक्षिकं प्रत्याख्यानं क्रियाविशेषणं चैतदेवमन्यत्रापि द्रष्टव्यमिति तथा हीह क्षेत्रवर्तिनोऽन्यक्षेत्रवर्तिनस्तीर्थकराः केवलवरज्ञानप्रधानचक्षुषामिदं प्रत्याख्यानकर्तुः पश्यंतीत्यतस्तत्साक्षिकमुच्यते । एवं सिद्धाः प्रत्यक्षा अतीन्द्रियज्ञानगोचरत्वात्तेषां तत्कथ्यते तस्य साक्षिणो दिव्यज्ञानभावेन समक्षभावर्त्तिनो यत्र तत्सिद्धसाक्षिकं । आहोभयप्रत्यक्षभावे लोके साक्षि व्यवहारो रूढो न चात्र प्रत्याख्यानकर्तुः सिद्धाः प्रत्यक्षा अतीन्द्रियज्ञानगोचरत्वात्तेषां तत्कथं ते तस्य साक्षिणः ? उच्यते । श्रुतवासितमतेस्तत्स्वरूपज्ञस्य तस्य ते भावकल्पनया प्रत्यक्षा इवेति कथं न साक्षिण इति ॥ तथा साधवो मुनयस्ते सातिशयज्ञानवंत इतरे वा विरतिप्रतिपत्तिसमयसमीपवर्तिनः साक्षिणो यत्र तत्साधुसाक्षिकं । तथा देवता भवनपत्यादयस्ते जिनभवनाद्यधिष्ठायिनस्तिर्यग्लोकसंचरित्भवो वा विरतिप्रतिक्रमभाविनश्चैत्यवंदनाद्युपचारात्समीपमुपगताः स्वस्थानस्थायी कथंचिद्द्वीपसमुद्रान् प्रति प्रयुक्तावधयः साक्षिणो यत्र तद्देवसाक्षिकं ॥ यदाह चूर्णिकारः - विरइपडिवत्तिकाले चिइवंदणाइणोवयारेण । अवस्समहासंनिहीया देवयासनिहाणं भवइ ॥