Book Title: Chaturthstutinirnay Shankoddhar
Author(s): Dhanvijaymuni
Publisher: Saudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh

View full book text
Previous | Next

Page 492
________________ ४33 ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર चतुश्चत्वारिंशे विजयिनि महापट्टनिवहे , जगच्चन्द्राख्योऽभूत्प्रबलवरविद्यो गणधरः । सदाचाम्लाऽम्लानोऽप्युदयपुरराजस्य सदसि, विजिग्ये वादीन्द्राननुचतुरशीत्यूहकलया ॥१०॥ तपस्तेजोवह्नौ शलभसमभावं गतवता, प्रतिस्पर्धावाओं प्रमुदितहृदा तत्क्षितिभृताः । तनो गच्छोऽतुच्छो विदितमिति तन्नाम विदधे, सुधर्मादीप्रोद्याद्नुणमिह तु षष्ठं तदभवत् ॥११॥ विजयदेवमुनीशवचोऽमृतं, सदसि चारु निपीय जहांगिरः । नृपवरः प्रददौ किल मंडपाचलगतो मुदितोऽस्य महाभिधाम् ॥१२॥ इति षष्ठितमे तु पट्टके, स सुधर्मादिमहातपोभिधाम् । गण एष दधन्विपक्षिणो, विगणय्य प्रथितोऽथ मेदिनीम् ॥१३॥ पर्यायांतरभाग्गच्छो द्विषष्ठितमपट्टके । कलाभृद्रत्नमभवत्तस्मात्क्षीराब्धिसंनिभत् ॥१४॥ सकलशुभसमीक्षणैकदक्षः, स विजयरत्न इति प्रसिद्धसूरिः । निजपरनिगमागमझरत्नं, तदुदधिजं प्रवदंति यं महांतः ॥१५॥ क्षमाप्रकर्षात्प्रथिमं क्षमायां, क्षमाधरेषूक्षितदक्षशिक्षम् । क्षमानिधं रत्नभूततोऽक्षाऽक्षमादिदोषक्षयकारि साक्षात् ॥१६॥ स्वच्छे गच्छे हतुच्छे भगवति विजयक्षेमसूरिः स साक्षाच्चित्रांवल्ली च चिंतामणिममरगवीं स्पर्धयन्स्वैर्गुणौधैः । तत्पट्टेऽनल्पतेजाः भुवि दिवि विदितो देववंद्यो दयालुर्नाम्ना देवेन्द्रसूरिः शुचितरसतताहारशुद्धिप्रसिद्धिः ॥१७॥ कल्याणाभिध उदितस्तदीयपट्टे, कल्याणाचल इव सत्सहस्त्ररश्मिः । कल्याणान्यखिलजगज्जने दधन्योऽकल्याणांधरमभिहरंस्तमः स सूरिः ॥१८॥

Loading...

Page Navigation
1 ... 490 491 492 493 494