Book Title: Chaturthstutinirnay Shankoddhar
Author(s): Dhanvijaymuni
Publisher: Saudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh

View full book text
Previous | Next

Page 491
________________ ४३२ ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર (॥ अथ श्री गुरुप्रशस्तिः ॥) श्रेयःस्तोममहानिधनतसुराधीशाधिमौलिश्रितश्रेणीबद्धमयूखमालिमणिभिर्नीराजितं राजितम् । माद्यद्वादिकरींद्रकर्कशरवव्रातैघमानोद्यम-, श्रीमत्पंचमुखीयवीर्यनिभं वः श्रीवर्धमानं नुमः ॥१॥ तस्य प्रौढपराक्रमस्य च विभोरेकादशैवाभवन्, । स्वं चादुःप्रसहं सुधर्मणि गणं दत्वैव मोक्षं गताः । सर्वे ते निरपत्यका भुवि यतस्तत्संततिः स्थास्यतीत्येवं वीरवचःप्रतापतरणिस्तीर्थं प्रवर्तिष्यति ॥२॥ निःसंगनिःस्पृहपरप्रभुतावितानैः, प्रोद्भूतमानमनिशं मुनितागुणौघैः । यावत्सुधर्मगणभृज्जनिताष्टपढें, निर्ग्रन्थबीरुदमुशंति गणस्य सुज्ञाः ॥३॥ सुस्थितेन सहितेन सुप्रतिबुद्धकेन विशदेन सूरिणा ।। कोटिमंत्रजपनादुपार्जितं, तस्य नाम तु सुधर्मकोटिकम् ॥४॥ पट्टकेऽत्र नवमे तथाविधेतच्चतुर्दशपरंपरावधि । सर्वतो वरसुधर्मकोटिकं, गच्छनामविदितं तदा बभौ ॥५॥ जातः पंचदशेतिथाविव ततः पट्टे प्रभाभासुरप्रालेयांशुनिभो वक़शुनिकरैर्दिग्मंडलं द्योतयन् । नाम्ना चन्द्र इति प्रतापतपन: सूरिः सदाश्चर्यकृत्, तन्नाम्नापि सुधर्मचन्द्र इति यत्सुज्ञाः समाचक्षते ॥६॥ चूडामणेर्जगति सर्वजितेन्द्रियेषु, पट्टे तु षोडश इहार्यसमंतभद्रात् । सूरेश्चतुर्थमिति नामवने निवासात्, प्रज्ञाःसुधर्मवनवासि तदा नमंति॥७॥ सर्वदेवनतपादपंकजः, सर्वदेवनरनाथनाथितः । सर्वदेववपुषि निःस्पृहस्ततः, सर्वदेव इति सूरिराडभूत् ॥८॥ पट्टकेऽर्कगुणितत्रिके ३६ ततोऽकारि सूरिपदवी महावटे । तेना गच्छगतपंचमाह्वयं, श्रीसुधर्मवटगच्छ इत्यभूत् ॥९॥

Loading...

Page Navigation
1 ... 489 490 491 492 493 494