Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
+
+
परिशिष्ट
२७ स्निग्धौ सुभिक्षशिवदावथाधिकं दृश्यते कनामा यः। दश वर्षाण्युपतापं जनयति शखप्रकोपकृतम् ॥३८॥
+
+ जलकेतुरपि च पश्चात् स्निग्धः शिखयाऽपरेण चोन्नतया । नव मासान् स सुभिक्षं करोति शान्ति च लोकस्य ॥४६॥
+ अश्विन्यामश्मक भरणीषु किरातपार्थिवं हन्यात् । बहुलासु कलिङ्गेशं रोहिण्यां शूरसेनपतिम् ॥ ५४॥ औशीनरमपि सौम्ये जलजाजीवाधिपं तथाऽऽर्दासु । आदित्येऽश्मकनाथं पुष्ये मगधाधिपं हन्ति ॥ ५५॥ असिकेशं भौजङ्गे पियेऽहं पाण्ड्यनाथमपि भाग्ये। औजयनिकसार्यम्णे सावित्रे दण्डकाधिपतिम् ॥५६॥ चित्रासु कुरुक्षेत्राधिपस्य मरणं समादिशेत्तज्ज्ञः। काश्मीरककाम्बोजौ नृपती प्राभाने न स्तः॥५७॥ इक्ष्वाकुरत्नकनाथौ हन्येते यदि भवेद्विशाखासु। मैत्रे पुण्ड्राधिपतिज्येष्ठाखथ सार्वभौमवधः॥ ५८॥
अध्याय १७ आसन्नक्रमयोगाऽदोल्लेखांशुमर्दनापसव्यैः। युद्धं चतुष्प्रकारं पराशराद्यैर्मुनिभिरुक्तम् ॥३॥
_ + + रविराक्रन्दो मध्ये पौरः पूर्वेऽपरे स्थितो यायी। पौरा बुधगुरुरविजा नित्यं शीतांशुराक्रन्दाः॥६॥ केतुकुजराङशुका यायिन एते हता ग्रहा हन्युः। आक्रन्दयायिपौरान जयिनो जयदाः स्ववर्गस्य ॥७॥ पौरे पौरेण हते पौराः पौरान नृपान विनिघ्नन्ति । एवं याय्याक्रन्दौ नागरयायिग्रहाश्चैव ॥ ८॥ दक्षिणदिक्स्थः परुषो वेपथुरप्राप्य सन्निवृत्तोऽणुः। अधिगूढो विकृतो निष्प्रभो विवर्णश्चयः स जितः॥९॥ उक्त विपरीतलक्षणसम्पन्नो जयगतो विनिर्दिष्टः। विपुलः स्निग्धो द्युतिमान् दक्षिणदिक्स्थोऽपि जययुक्तः॥१०॥ गुरुणा जितेऽवनिसुते बाल्हीका यायिनोऽग्निवार्ता । शशिजेन शूरसेनाः कलिङ्गसाल्वाश्च पीड्यन्ते ॥१३॥ सौरेणारे विजिते जयन्ति पौराः प्रजाश्च सीदन्ति । कोष्ठागारम्लेच्छक्षत्रियतापाश्च शुक्रजिते ॥१४॥ भौमेन हते शशिजे वृक्षसरित्तापसाश्मकनरेंद्राः। उत्तरदिक्स्थाः क्रतुदीक्षिताश्च सन्तापमायान्ति ॥१५॥ गुरुणा बुधे जिते म्लेच्छशूद्रचौरार्थयुक्तपौरजनाः। भैगर्तपार्वतीयाः पीड्यन्ते कम्पते च मही॥१६॥ रविजेन बुधे ध्वस्ते नाविकयोधाब्जसधनगर्भिण्यः। भृगुणा जितेऽग्निकोपः सस्याम्बुदयायिविध्वंसः ॥ १७ ॥ जीवे शुक्राभिहते कुलूतगान्धारकैकया मद्राः।। शाल्वा वत्सा वङ्गा गावः सस्यानि नश्यन्ति ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150