Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 65
________________ भद्रबाहुसंहिता श्रीरघृतक्षौद्राणां दनो रुधिरोष्णवारिणां वर्षे । देशविनाशो ज्ञेयोऽसृग्वर्षे चापि नृपयुद्धम् ॥ ४३ ॥ यद्यमलेऽर्के छाया न दृश्यते दृश्यते प्रतीपा वा । देशस्य तदा सुमहद्भयमायातं विनिर्देश्यम् ॥ ४४ ॥ व्यभ्रे नभसीन्द्रधनुर्दिवा यदा दृश्यतेऽथवा रात्रौ । प्राच्यामपरस्यां वा तदा भवेत् क्षुद्भयं सुमहत् ॥ ४५ ॥ सूर्येन्दुपर्जन्यसमीरणानां योगः स्मृतो वृष्टिविकारकाले । धान्यान्नगोकाञ्चनदक्षिणाश्च देयास्ततः शान्तिमुपैति पापम् ॥ ४६ ॥ ३९ अपसर्पणं नदीनां नगरादचिरेण शून्यतां कुरुते । शोषश्वाशोष्याणामन्येषां वा हदादीनाम् ॥ ४७ ॥ स्नेहासृख्यांसवहाः संकुलकलुषाः प्रतीगाश्चापि । परचक्रस्यागमनं नद्यः कथयन्ति षण्मासात् ॥ ४८ ॥ ज्वाला धूमक्काथा रुदितोत्कुष्टानि चैव कूपानाम् । तप्रजल्पितानि च जनमरकाय प्रदिष्टानि ॥ ४९ ॥ तोयोत्पत्तिरखाते गन्धरसविपर्यये च तोयानाम् । सलिलाशयविकृतौ वा महद्भयं तत्र शान्तिरियम् ॥ ५० ॥ सलिलविकारे कुर्यात् पूजां वरुणस्य वारुणैर्मन्त्रैः । तैरेव च जपहोमं शममेव पापमुपयाति ॥ ५१ ॥ प्रसवविकारे स्त्रीणां द्वित्रिचतुष्प्रभृतिसम्प्रसूतौ वा । हीनातिरिक्तकाले च दशकुलसंक्षयो भवति ॥ ५२ ॥ वडवोष्ट्रमहिषगोहस्तिनीषु यमलोद्भवे मरणमेषाम् । षण्मासात्सूतिफलं शान्तौ श्लोकौ च गगक्तौ ॥ ५३ ॥ नार्यः परस्य विषये त्यक्तव्यास्ता हितार्थिना । तर्पयेच्च द्विजान् कामः शान्तिं चैवात्र कारयेत् ॥ ५४ ॥ चतुष्पदाः स्वयूथेभ्यस्त्यक्तव्याः परभूमिषु । नगरं स्वामिनं यूथमन्यथा हि विनाशयेत् ॥ ५५ ॥ परयोनावभिगमनं भवति तिरश्चमसाधु धेनूनाम् । उक्षाणौ वान्योऽन्यं पिबति श्वा वा सुरभिपुत्रम् ॥ ५६ ॥ मासत्रयेण विद्यात् तस्मिन्निःसंशयं परागमनम् । तत्प्रतिघातायैतौ श्लोकौ गर्गेण निर्दिष्टौ ॥ ५७ ॥ त्यागो विवासनं दानं तत्तस्याशु शुभं भवेत् । तर्पयेद्ब्राह्मणांश्चात्र जपहोमांश्च कारयेत् ॥ ५८ ॥ स्थालीपाकेन धातारं पशुना च पुरोहितः । प्राजापत्येन मन्त्रेण यजेद्वह्नन्नदक्षिणाम् ॥ ५९ ॥ यानं वाहवियुक्तं यदि गच्छेन्न व्रजेश्च वाहयुतम् । राष्ट्रभयं भवति तदा चक्राणां सादभङ्गं च ॥ ६० ॥ अनभिहततूर्यनादः शब्दो वा ताडितेषु यदि न स्यात् । व्युत्पत्तौ वा तेषां परागमो नृपतिमरणं वा ॥ ६१ ॥ गीतरतूर्यनादा नभसि यदा व चरस्थिरान्यत्वम् । मृत्युस्तदा गदा वा विस्वरतूर्ये पराभिभवः ॥ ६२ ॥ गोलांगूलयोः स दुर्बीशूर्पाद्युपस्करविकारे । क्रोष्टुकनादे च तथा शस्त्रभयं मुनिवचश्वेदम् ॥ ६३ ॥ वायव्येष्येषु नृपतिर्वायुं सक्तुभिरर्चयेत् । आ वायोरिति पञ्चच जाप्याश्च प्रयतैर्द्विजैः ॥ ६४ ॥ ब्राह्मणान् परमानेन दक्षिणाभिश्च तर्पयेत् । बह्नन्नदक्षिणा होमाः कर्तव्याश्च प्रयत्नतः ॥ ६५ ॥ पुरपक्षिणो वनचरा वन्या वा निर्भया विशन्ति पुरस् । नक्तं वा दिवसचराः क्षपाचरा वा चरन्त्यहनि ॥ ६६ ॥ सन्ध्याद्रयेऽपि मण्डलमाबध्नन्तो मृगा विहङ्गा वा । दीप्तायां दिश्यथवा क्रोशन्तः संहता भयदाः ॥ ६७ ॥ श्वानः प्ररुदन्त इव द्वारे वसन्ति जम्बुका दीप्ताः । प्रविशेन्नरेन्द्रभवने कपोतकः कौशिको यदि वा ॥ ६८ ॥ कुक्कुटरुतं प्रदोषे हेमन्तादौ च कोकिलालापाः । प्रतिलोममण्डलचराः श्येनाद्याश्चाम्बरे भयदाः ॥ ६९ ॥ गृहचैत्यतोरणेषु द्वारेषु च पक्षिसंघसम्पाताः । मधुवल्मीकाम्भोरुहसमुद्भवाश्चापि नाशाय ॥ ७० ॥ भ्वभिरस्थिशवावयवप्रवेशनं मन्दिरेषु मरकाय । पशुशस्त्रव्याहारे नृपमृत्युर्मुनिवचश्चेदम् ॥ ७१ ॥ मृगपक्षिविकारेषु कुर्याद्धोमान् सदक्षिणान् । देवाः कपोत इति च जप्तव्याः पञ्चभिर्द्विजैः ॥ ७२ ॥ सुदेवा इति चैकेन देया गावश्च दक्षिणा । जपेच्छाकुनसूक्तं वा मनोवेदशिरांसि च ॥ ७३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150