Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 77
________________ भद्रबाहुसंहिता [ ८, २५, ९, १-२२ उल्कावत् साधनं ज्ञेयं' मेघेष्वपि तदाऽऽदिशेत् । अतः परं प्रवक्ष्यामि वातानामपि लक्षणम् ॥ २५ ॥ इति नि (नै) ग्रन्थे भद्रबाहुके निमित्ते मेघकाण्डं नामाष्टमोऽध्यायः ॥ १२ अथातः संप्रवक्ष्यामि वातलक्षणमुत्तम । प्रशस्तमप्रशस्तं च यथावदनुपूर्वशः ॥ बर्ष भयं तथा क्षेमं राज्ञो जय-पराजयम् । मारुतः कुरुते लोके जन्तूनां पुण्य-पापजं ॥ * आदानाचैव पाताच्च पत (च ) नाच विसर्जनात् । मारुतः सर्वगर्भाणां वलवान्नायक सः ॥ दक्षिणस्यां दिशि यदा वायुर्दक्षिणकाष्टिकः । समुद्रानुशयो' नाम स गर्भाणां तु संभवः ॥ तेन जनितं गर्भं वायुर्दक्षिणकाष्टिकः । धारयेद् धारणे" मासे पाचयेत् पाचने तथा ॥ धारितं पाचितं गर्भं वायुरुत्तरकाष्टिकः । प्रमुखति ततस्तोयं वर्षतमरुतोच्यते ॥ १० १२ १३ १४ आषाढी पूर्णिमायां तु पूर्ववातो यदा भवेत् । प्रया ( वा ) ति दिवसं सर्वं सुवृष्टिस्तु तदा मत ॥ वाप्यानि सर्वबीजानि" जायन्ते निरुपद्रवम् । शूद्राणामुपघाताय सोऽत्र लोके परत्र च ॥ दिवसार्धं यदा वाति पूर्वमासौ" तु सोदकौ" । चतुर्भागेण मासस्तु शेषं ज्ञेयं" यथाक्रमम् ॥ पूर्वार्धदिवसे ज्ञेय" पूर्वमासौ तु सोदकौ" । पश्चिमे पश्चिमौ मासौ ज्ञेयौ द्वावपि सोदकौ ॥ हित्वा पूर्वं तु दिवसं मध्याह्ने यदि वाति" चेत् । वायुर्मध्यममासातुं तदा मेघो न वर्षति ॥ ११ आषाढीपूर्णिमायां तु दक्षिणो मारुतो यदा । न तदा वापयेत् किञ्चित् ब्रह्म-क्षत्रं च पीडयेत् ॥ धन-धान्यं नै विक्रेयं बलवन्तं च संश्रयेत् । दुर्भिक्षं मरणं" व्याधिस्त्रीसं मासं प्रवर्त्तते ॥ आषाढी पूर्णिमायां तु पश्चिमो यदि मारुतः । मध्यमं वर्षणं सस्यं धान्यार्थं मध्यमं तथा ।। उद्विजंति” च राजानो* वैराणि च प्रकुर्वते । परस्परोपघाताय स्वराष्ट्र - परराष्ट्रयोः ॥ आषाढी पूर्णिमायां तु वायुः स्यादुत्तरो यदा । वापयेत् सर्वबीजानि " सस्यं ज्येष्ठं समृद्ध्यति ॥ १६ क्षेमं सुभिक्षमारोग्यं प्रशान्ताः पार्थिवास्तथा । बहूदकास्तदा मेधा मही" धर्मोत्सवाकुलीं ॥ आषाढीपूर्णिमायां तु वायुः स्यात् पूर्वदक्षिणः । राजमृत्युर्विजानीयाच्चित्रं सस्यं तथा जलम् ॥ क्वचिन्निष्प[द्य]ते सस्यं क्वचिञ्चापि विपद्यते । धान्यार्थी मध्यमो ज्ञेयो तदाऽभेश्व" भयं नृणाम् ॥ १९ आषाढी पूर्णिमायां तु वायुः स्याद् दक्षिणापरः । सस्यानामुपघाताय चौराणां तु विवृद्धये " ॥ भस्म-पांशु-रजैस्कीर्णा तदा भवति मेदिनी । सर्वत्यागं तदा कृत्वा कर्तव्यो धान्यसङ्ग्रहः ॥ विद्रवन्ति च राष्ट्राणि क्षीयन्ते नगराणि च । श्वेतास्थिर्मेदिनी ज्ञेया मांस - शोणितकर्द्दमा || 1 १५ 40 १७ १८ 46 २० २१ २२ Jain Education International १ २ ३ ४ For Private & Personal Use Only ५ ६ ७ 1 C सर्व । 2 C समा° । 3 BD बात' । 4 C संक्रमम् । 5A ° पूर्वतः । 6 A पापजाम्; C पापयोः । * A B अवातं चैव वातं च पाचनश्च विसर्जनः; D In addition to this line, the line that is found in A and B is also found in this Ms. 7-8 C स्मृतः । + A धारायद्वारणे मे से। 9 B °तियसो । 10 C मध्यम° । 11 A वारणे । 12 C आषाढ । 13 AB पूर्णिमासी; D पौर्णमासी । 14-15 B समासदा; C समास्तदा; D तमासदा । 16 B 'जीवानि । 17 C निरुपद्रवाः । 18 A ° मासे; C मासं । 19 AC सोदकम् । 20 A शेषो; BD शेषौ । 21 A ज्ञेयो; BD ज्ञेयौ । 22 C शेयो । 23 C मासो | 24 C सोदको । + C पूर्वान्हे प्रहरे यत्र पश्चिमेन च वाति चेत् 25-26 A वा भवेत् । 27 C ° मासी । 28 B C D देबो । 29 A ते । 30 A विज्ञेयं । 31 C डामरं । C तस्कराच महद्भयम् । 32 A B D उद्गच्छन्ते 33-34 A तथा राजा; B तथा राजौ; D यथा राजा । 35-36 C वहि कुर्वते; D प्रवर्तते । 37 A परस्परो यथा तोय | 38 A जीवानि । 39 B प्रवर्द्धते; D प्रवर्त्तते । 40 A वसन्तो । 41 C हो । 42 AD महा; C सदा । 43 A D ° कुलाः; C वोधतः । 44-45 A राज्ञां सुखं । 46-48 C शे मध्यमं । 49 D भवेत् । 50 A सस्यदूयः । 51 C रखा | । ८ ९ www.jainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150